________________
७७
द्वितीयः सर्गः । मृगद्विपेन संबन्धः किं भद्रायाः प्रशस्यते ? ॥ ४०१॥ अथोचे भूपतेः पुत्री सत्यमेव त्वयोदितम् । परं विद्यागुणैः कोऽन्यस्तव तुल्यो जगत्यपि?॥४०२॥ कस्यापि गुणहीनस्य किं करिष्यामि पाणिगा। ककुद्मतो गले बद्धाऽनड्डाहीव वराकिका ॥४०३॥ नयसारोऽदधाच्चित्तेऽनुरक्तं मयि मानसम् । रक्षितुं शक्यते नैव निषिद्धमपि युक्तिभिः ॥४०४॥ यतःअपि चण्डानिलोद्भुततरङ्गस्य महोदधेः । शक्येत प्रसरो रोढुं नानुरक्तस्य चेतसः॥ ४०५ ॥ उवाच राजपुत्री च यदि त्वं सदयो मयि । तदा सत्यं कुरु वचोऽपरथाऽग्निर्वरो मम ॥ ४०६॥ ओमित्युक्ते नयेनाऽथ दाक्षिण्यन क्षणादपि । अन्येयुः प्रेषयामास तदन्ते चेटिकां च सा ॥४०७॥ अस्मिन्नेव दिने लग्नं परमोचग्रहान्वितम् । आकृष्टमावयोः पौण्यैरंशैरिव पुरःसरम् ॥ ४०८ ॥ करभ्यो वायुवेगिन्यो गोणी पूर्णा मणीगणैः । प्रगुणीकारिताः सन्ति प्रच्छन्नं मन्त्रिनन्दनः॥४०९॥ आमेत्युक्तेति कापट्यादसौ विनयचट्टकम् । रहस्युवाच भोः! राजकन्यकां दापयामि ते ॥४१०॥ अश्रद्धेयमिदं श्रुत्वा व्योमपुष्पमिवाऽवदत् । नयसार! कथं दैवहतं हससि केलिना? ॥४११॥ अयुक्तं वक्तुमन्याय्यं हन्त ! युष्मादृशां विशाम् । न भाति चरणे बद्धं करभस्य हि नूपुरम् ॥४१२॥ हंहो! विनय ! जल्पामि वचनं सत्यमीदृशम् । नात्र हास्याऽऽस्पदं किञ्चिद्भवता सह तन्यते ॥४१३॥ कृत्वा सौभाग्यकन्दल्या पाणिग्रहमहोत्सवम् ।