________________
मल्लिनाथमहाकाव्येप्रनष्टेनेव शल्येन घनाघनघनोदये ॥ ३८८ ।। .. निह्रोतव्यमिदं केनाप्युपायेन मया कथम् । विमृश्येति मुहुश्चके छात्राणां भक्तिमद्भुताम् ॥३८९॥ उत्तितेज कपर्देन पट्टिकाः प्रतिवासरम् । पर्यपूर्यन्त पात्राणि विधाय खटिनीद्रवम् ॥ ३९० ॥ छात्राणामासनान्येष विन्यस्यति दिवानिशम् । पदसंवाहनादीनि कर्माणि विदधेतराम् ॥३९१॥ नाम च्छात्रैर्ददेऽथास्य विनयचट्ट इत्यपि । दुर्भिक्षं नाम तेषां हि किमाख्यासु विजृम्भते ? ॥३९२॥ अमुष्य भक्तिचट्टस्य पाठकुण्ठस्य सर्वथा । एवं द्वादश वर्षाणि हर्षोत्कर्षजुषोऽव्रजन् ॥३९३॥ तस्यां तु लेखशालायां पठन्ती राजकन्यका । सौभाग्यमञ्जरी नाना जज्ञे यौवनपावना ॥३९४॥ कस्मैचिद् गतविद्यायाऽवद्यवाक्यवराय माम् । दास्यते जगतीनाथः कन्यार्थो मत्यगोचरः॥३९५॥ नयसारः पुनरसौ मन्त्रिपुत्रो निधिर्धियाम्। वीरःशूरो नयी शान्तः सुदाक्षिण्यः प्रियंवदः॥३९६॥ यद्येष मम जीवेशो जायते पुण्ययोगतः। तुष्टा मे देवताः कुल्याः सत्याचाशी परम्पराः॥३९७।। इत्थं विचिन्त्य सप्रेमप्रपञ्चवचनं च सा। नयसारं प्रति प्रीत्या बभाषे रहसि स्थिता ॥३९८॥ नयसारोऽप्युवाचेदं कैतवेन कृतस्मयः। युक्तमुक्तं त्वया भद्रे ! शृङ्गारदुधनावलि ! ॥३९९॥ देवानामर्थनीया त्वं यदि प्रार्थयसे च माम् । तद् मे सभाग्यं सौभाग्यं किन्तु किश्चन वचम्यहम्।४००॥ त्वं कन्यकासि भूमीन्दोस्तत्पत्तेरस्मि नन्दनः। १ 'खटिकाद्रवम्' इत्यपि।