________________
द्वितीयः सर्गः।
एकस्यां मूर्ध्नि बध्नत्यां धम्मिल्लं नवभङ्गिभिः॥३७५॥ निक्षिपन्त्यां द्वितीयस्यां तालवृन्तानिलं मृदु । तृतीयस्यां ददत्यां तु ताम्बूलं प्रेमगर्भितम् ॥३७६।। चतुर्थ्यां दयितायां तु मर्दयन्त्यां क्रमाम्बुजे । एवंभूतः करिष्यामि राज्यं श्रीसूरसेनवत् ॥ ३७७ ॥
(सप्तभिः कुलकम् ) अरे रे ! वक्षि वाचाटाऽसंबद्धं किमिदं वचः ? । मामकं त्यज धामेदममुं श्रेष्ठीत्यतर्जयत् ॥ ३७८ ॥ तेजः संगृह्य चण्डांशुर्वारिधेरिव रंहसा। क्षीरकण्ठोऽपि तद्गेहाद् निर्ययौ श्रेष्ठिनन्दनः ॥३७९।। अपमानेन तातस्य प्रेरितः प्राप सुन्दरम् । . पुरं रत्नपुरं नाम सश्रीकं स्मेरपद्मवत् ॥ ३८० ॥ तत्र श्रीरत्नकेत्वाख्यो हरिवंशान्वयी नृपः। सुदक्षिणा प्रिया तस्य क्रतोरिव सुदक्षिणा ॥ ३८१ ॥ चारुसौभाग्यसौधाग्रपताकाकाश्चनच्छविः। . सौभाग्यमञ्जरी तस्य नन्दनी नेत्रनन्दनी ॥ ३८२ ॥ नयसारो यथार्थाख्यो मन्त्रिपुत्रः पवित्रधीः । अपाठीद् विमलाख्यस्योपाध्यायस्यान्तिके तथा।३८३॥ अधीयानश्छात्रवर्गः सेवितक्रमपङ्कजम् । श्रीवत्सो नगरस्यान्नस्तमुपाध्यायमैक्षत ॥ ३८४॥ तं प्रणम्याऽवदत् पूज्य ! मह्यं विद्याप्रदो भव । इत्युक्तेऽपाठयदसौ सुतवच्छ्रेष्ठिनः सुतम् ॥ ३८५ ॥ पुरातनभवोपात्तज्ञानावरणकर्मणा। पठन्नपि न जानीते किञ्चनाऽसंज्ञिजीववत् ॥३८६॥ मूर्खचट्ट इति स्फीतं गुणनिष्पन्नमीदृशम् । तस्य नाम ददुश्छात्रा यतस्ते केलिवृत्तयः ॥३८७॥ अनेनाहूयमानोऽसौ दूयते स्म क्षणे क्षणे ।