________________
७४.
मल्लिनाथमहाकाव्येतथाहिअस्ति स्त्रीस्पर्शवत् सर्वविषयेष्वादिम पुरम् । काञ्चनाख्यं लसद्भद्रशालं काश्चनशैलवत् ॥३६३॥ तत्रासीत् पृथिवीपालः सूरसेनो महारथः । धरणीधारिणीनाम्नी तस्य देव्यौ बभूवतुः ॥३६४॥ विज्ञातजीवाजीवादिनवतत्त्वः सदाऽऽस्तिकः । तस्मिन्नेव पुरे श्रेष्ठी श्रीपालः परमाईतः ॥३६५॥ सुशीललालसा धर्मे दानशौण्डा दयावती । श्रीमती तस्य जायाऽभूद् धीमती परमाहती ॥३६६॥ चत्वारो नन्दनास्तस्य लक्ष्मीभतुर्भुजा इव । श्रीधरः श्रीपतिश्च श्रीदत्तः श्रीवत्स इत्यपि ॥३६७॥ अन्येयुः कौतुकाच्छ्रेष्ठी तल्पस्थः सर्वनन्दनान् । पप्रच्छ केन केन स्वमुपायेनार्जयिष्यथ ? ॥ ३६८ ।। तन्मध्यात् प्रथमोऽवादीत् तात! चिन्तातुराः कथम् । वित्तार्जनं करिष्यामि नानारत्नपरीक्षया ॥३६९॥ सुवर्णस्य तथा वस्त्रसमूहानां च विक्रयैः । वित्तोत्पत्तिं विधास्याव इत्यन्यौ पोचतुः सुतौ ॥३७०॥ श्रीवत्सोऽथ जजल्पोचैर्गेयदत्तमना मनाक् । लक्षपाकादितैलेन कृताभ्यङ्गाङ्गमर्दकैः ॥ ३७१ ॥ विहितस्नानमङ्गल्यः पञ्चतूर्यलयान्वितम् । सौवर्णरत्नप्रतिमाः पूजयन् लास्यबन्धुरम् ॥ ३७२ ॥ नानाप्रसादपात्रौघैः पत्तिभिः परिवारितः । कुर्वाणो भोजनं भोज्यलेह्यपेयसुपेशलम् ॥ ३७३ ॥ सुश्लिष्टशाटकमान्तनिधरितकरद्वयः । शलाकाऽवसरस्फूर्जद्गेयदत्तश्रवोयुगः ॥ ३७४ ॥ शय्यायां पुलिनाभायां निविष्टस्त्रिदशेशवत् । , 'मरसेनोऽभिधानतः' इति ।