________________
द्वितीयः सर्गः।
तव प्राग्भवपत्नीयं त्वत्कृतमन्वमोदत । ततोऽस्या अपहारोऽभूत् कृतं कर्मैव नाऽन्यथा॥३५०॥ श्रुत्वेदं सुगुरुन् नत्वा प्राप्य श्राद्धव्रतावलीम् । अतिष्ठं पौषधग्राही चतुष्पा निजौकसि ॥ ३५१॥ देवैरसि त्वमानीता मम भाग्यैरिव द्रुतम् । न प्राप्नोति किमु प्राणी धर्मकर्मणि कर्मठः ॥३५२॥ अथ भूमिपतिः साकं तया वैषयिकं सुखम् । भुञ्जानो न्यगमत् कालं सुधाभुगिव भूचरः॥३५३॥ पर्यन्तेऽनशनं कृत्वा द्रव्यभावविभेदतः । जगाम लान्तकं कल्पं क्रमाद् निर्वाणमेष्यति ॥३५४॥ वनमालापि संप्राप्तद्वादशश्रावकवती। इतवत्यच्युतं कल्पं तस्माद् मोक्षमवाप्स्यति ॥३५५।। यथाऽनया निष्कलङ्क सुशीलं परिपालितम् । तथान्यैरपि भूपाल! पालनीयं महाबल! ॥३५६॥ वामिन् ! शीलवतीमध्ये धन्यैका वनमालिका । त्वरते ब्रह्मचर्याय यच्चरित्रेण मन्मनः ॥ ३५७ ॥ मूढो विषयसेवाभिर्विधत्ते जन्म निष्फलम् । विक्रीणीते न किं बालो रत्नं स्वल्पैः कपर्दकैः ॥३५८॥ नरकाय प्रजायन्ते विषया हन्त ! सेविताः । तेषां त्यागस्तु भावेनापवर्गपथदर्शकः ॥३५९ ॥ यथोद्देशं हि निर्देश इति ध्यायन् मेहामुनिः। उपाक्रमत माहात्म्यं तपसो वक्तुमप्यथ ॥३६०॥ तपो विजयतामेकं कार्मणं भुवनश्रियः। धर्मरोहणमाणिक्यं कर्मकक्षाऽऽशुशुक्षणिः ॥३६१॥ विधिवद्विहितादस्मात् कर्ममर्मविभेदकात् । सुगतिं लभते विद्याविलासो नृपतिर्यथा ॥३६२।। (युग्मम्) १ 'त्वर्यते' इत्यपि । २ — महामतिः' इति पाठान्तरम् ।