________________
मल्लिनाथमहाकाव्येतेषामन्तेऽर्हतो धर्म श्रुत्वा न्यगदमञ्जसा । दीक्षां दत्त भवाम्भोधौ मङ्गिनीमङ्गिनीमिव ॥३३७॥ राजन् ! भोगफलं कर्म तवाद्यापि हि वर्तते । ततोऽहं न्यगदं तूर्णमपूर्णखमनोरथः ॥ ३३८ ॥ वनमालां विना स्वामिन् ! सर्वस्त्रीनियमो मम । तस्याः शुद्धिर्मया लब्धा न चरैरपि भूरिभिः।।३३९॥ अखण्डशीलालङ्कारारुन्धतीव महासती। राजन् ! द्वादशवर्षान्ते मिलिष्यति तव प्रिया॥३४०॥ स्वामिन् ! मम कथं दुःखं जातं द्वादशवार्षिकम् । अथोचे भगवानेवं ज्ञानज्ञातजगत्त्रयः ॥ ३४१ ॥ अनेकगोधनखामी भद्रसंज्ञः कृषीवलः। शालिग्रामे पुराऽऽसीस्त्वं दीनदानपरायणः ॥३४२॥ शरत्काले समायाते केदारे शालिशालिनि । गतस्त्वं हंसमिथुनमपश्यः काममोहितम् ॥ ३४३ ॥ गृहीत्वा वारलां पाशैर्टषस्यन्तीमथैकदा । आलिम्पस्त्वं कुङ्कुमेनात्मानं चाशुभकर्मणा ॥३४४॥ तद्वियोगातुरो हंसः परिभ्रमन्नितस्ततः । नैवाऽऽद विशखण्डानि नैवाऽऽप सलिले रतिम् ॥३४५॥ अथ तं तादृशं वीक्ष्य वारलां जलधारया । अन्ते द्वादश नाडीनां प्रक्षाल्य दययाऽमुचः ॥३४६॥ दीनदानप्रभावेण त्वमभूद् धरणीश्वरः। दानेन परमा भोगा भवन्ति भववर्तिनाम् ॥३४७॥ त्वया द्वादशनाडीभिर्यत् कर्म समुपार्जितम् । वादशभिर्बादं तदशेषं सहिष्यते ॥ ३४८ ॥ यतःअदीर्घदर्शिभिः क्रूरैटैरिन्द्रियवाजिभिः । हसद्भिः क्रियते कर्म रुदद्भिरनुभूयते ॥ ३४९ ॥