________________
द्वितीयः सर्गः। लोकद्वयविरुद्धं हि किं कुर्वन्ति विवेकिनः ? ॥३२३॥ अथ बौहित्थिकस्तस्याः कण्ठपाशं ददौ दृढम् । एवं सौधर्मकल्पस्य पश्यन्ति स्म सुधाभुजः ॥३२४॥ तां पञ्चत्वदशां प्राप्तामपि पालितसवि॒ताम् । वनमालां विलोक्यते प्रादुरासन् सुधाशनाः ॥३२५॥ रे पौतिक ! परस्त्रैणसङ्गलालसमानस !। कथमेतां सती हंसि शौनिको वर्करीमिव ? ॥३२६॥ शीलव्रतप्रभावेण वयमस्याः पदातयः । तवैतत्प्राणघातेन कृतान्ताऽनुचरा इव ॥ ३२७ ॥ ततः पोतवणिग् भुञ्जनिवाऽऽस्येऽक्षिपदङ्गुलीः । सर्वासामपि भीतीनां मरणं हि महद् भयम् ॥३२८॥ अथैतैः करुणासान्द्रस्तं विमुच्य नृपप्रिया। विज्ञायाऽवधिना नीता विभूषणपुरे पुरे ॥ ३२९ ॥
आवासमध्यमासीनां तां निरीक्ष्य क्षितीश्वरः। विस्मयस्मेरहदयो यावद् ध्यायति किञ्चन ॥३३०॥ अथोचुस्ते सुपर्वाणो देव ! धन्या वयं ननु । सतीचूडामणेरस्याः प्रणतं यत् पदद्वयम् ॥ ३३१ ॥ अमुष्याः शीलमाहात्म्यं वागीशो वक्तुमक्षमः । मन्ये शून्यपदभ्रान्ति नित्यं नित्यं दधात्यलम् ॥३३२॥ ततः पौतिकवृत्तान्तमनल्पं कल्पवासिनः। प्रजल्पन्ति स्म विस्मेरवदनाम्भोजराजिताः ॥३३३॥ अस्याः शीलमनश्लील हरेर्वर्णयितुं पुरः।। गच्छामो वयमित्युक्त्वा प्रचेलुः कल्पवासिनः॥३३४॥ सस्नेहमगदद् देवी देव ! कस्मात् कृशाङ्गकाः । भवन्तः श्वेतवसनाः संप्राप्तदर्शना इव ? ॥ ३३५ ॥ देवि! त्वद्विरहे प्राप्ते क्षमिणः साम्यभाजिनः । जैनाचार्याः समाजग्मुर्विहरन्तः कृपालवः ॥ ३३६॥