________________
मल्लिनाथमहाकाव्येअथ चम्पकमालापि भूपतेः पार्श्वमेत्य च । अभाषिष्ट मृषावादी त्वत्तो नान्यो जगत्यपि।।२८४॥ योगिनं भैरवं नन्तुं प्रयामीत्युपदिश्य माम् । भैरवीं तां मुहुर्यासि सेवितुं निजवल्लभाम् ॥२८५।। इत्युक्त्वा कोपना देवी कोपागारमुपेत्य च । उद्वन्धनं व्यधादाऽऽशु नास्ति कोपवतां मतिः।।२८६॥ अन्वेषिताऽपि शतशो महीशेन जनैरपि। न दृष्टा वनमाला सा हस्तभ्रष्टाणुरत्नवत् ॥ २८७॥ यः कश्चिद् वनमालाया उदन्तं कथयिष्यति । तस्मै लक्षं प्रदास्यामि दीनाराणां विनिश्चितम् ॥२८८॥ इति घोषणया राजा ताडयामास डिण्डिमम् । शुद्धिस्तथापि न कापि लेभे दुःखी ततो नृपः॥२८९॥ निवृत्ते सर्वथाऽमुष्या उदन्ते दिक्षु विस्तृते । समातृको द्विजस्तस्मात् तया साकं विनिर्ययौ।।२९०॥ किश्चिागमतिकान्तो द्विजः प्रोवाच तां निशि । दुःखाद् रक्षितपञ्चत्वे! साम्पतं वल्लभा भव ॥२९१॥ आकर्येत्यवदद् देवी द्विजोऽसि मतिमानसि । क्षत्रियाण्या समं कामं संगमं किं विधित्ससि ॥२९२॥ प्रतापाक्रान्तलोकोऽपि परासक्तो दिवाकरः। अपराधीव दैवेन पात्यते वार्धिपाथसि ॥ २९३ ॥ पुराणवेदिनो यूयं यद्यन्यायं करिष्यथ ? । तदा सत्येति गीरासीत् समुद्राद् धूलिरुत्थिता॥२९४॥ आपातरम्यैर्विषयैः किम्पाकद्रुफलैरिव । कथं स्वकुलमर्यादां त्यजसि क्षयवाधिवत् ? ॥२९५॥ दिवा न वीक्षते घूकः काको नक्तं न वीक्षते । कामातः कोऽपि पापीयान् दिवा नक्तं न वीक्षते ॥२९६॥ १ अभाषतेति पाठान्तरम् ।