________________
द्वितीयः सर्गः। जीवितं शीलमेवैकं कुलीनस्य क्षमातले ।। आयुर्मुतादभ्यधिको यतः शीलमृतोऽशुभः ॥२९७॥ गुरुस्त्वं प्राणदातृत्वाद् महीशस्तव नन्दनः। ... अहं पुत्री स्नुषेवाऽथ कथमन्यद् विभाषसे ? ॥२९८॥ एष प्रोवाच कोपेन विदुष्यसि दुरात्मिके ! । अतस्त्वां मारयिष्यामि मारैर्नवनवैरहम् ॥ २९९ ॥ त्वदर्थे विषयस्त्यक्तः सेवितोऽपि हि पूर्वजैः । परं तवेदृशी चेष्टा निकृष्टे ! दुष्टचेष्टिते ! ॥ ३०० ॥ त्यक्तं राज्यं त्वदर्थेन देशो बन्धुः कुलं गृहम् । वित्तं मित्रं निजा भूमिः परं ते चेष्टितं ह्यदः ॥३०१॥ वनमालाऽप्यथोवाच रक्षताद् मां महापदः । जनकोऽसि सदाचारपरोपकृतिसुन्दरः ॥ ३०२ ॥ . अथाकर्षद् द्विजश्चर्मकोशादस्त्री भृशं सिताम् ।.. कामान्धा इव कोपान्धाः कृत्याकृत्यपराङ्मुखाः३०३॥ ब्राह्मणस्य ततो माता बभाषे प्रेमबन्धुरम् । जीवन् प्राणी सुते ! भद्रशतं पश्यति निश्चितम् ३०४॥ वनमालाऽगदद् मातः ! पञ्चत्वं मम जायताम् । तथापि शीलविध्वंसो मा मे भवतु जातुचित् ॥३०५॥ ज्ञात्वेति निधनत्वेऽपि सस्पृहां शीलपालनात् । सहस्रेण सुवर्णस्य विक्रीणीते स्म स द्विजः ॥३०६॥ क्रायकेणापि तेनाशु प्रार्थिता द्विजवद् भृशम् । तद्वत् प्रोवाच सा साध्वी ह्येकरूपा सती यतः॥३०७॥ ततो बर्बरदेशे सा विक्रीता तेन विप्रवत् । एकत्रापि हि दुर्दैवाद् भवे भवशतं भवेत् ॥ ३०८ ॥ कदनभोजिनी कामं मलाविलकलेवरा । वनमालाऽभजद् नूनं शुष्कमालेव हेयताम् ॥३०९॥ अन्येास्तृणकाष्ठौघमानेतुं काननं गता।