________________
द्वितीयः सर्गः। भयपूर्व निषिद्धेऽथ समस्ते स्वपरिच्छदे। मया संलपितं देव्याः कथयिष्यामि निश्चितम्॥२७१॥ तां चित्ते बिभ्रता भस्माङ्कुरां राज्ञा ममोपरि । प्रीतिं विमुच्य मयुच्चैरीदृशी विदधे दशा ॥२७२।। प्रदीप्यमाना कोपेन कारागारादमुं ततः । आकृष्य नर्मकेलिं च बभाषे बान्धवोऽसि नः॥२७३॥ जगाम वनमालायाः सौधं चम्पकमालिका । विदूषकप्रणीतेन सा मार्गेण निरर्गला ॥ २७४ ॥ अवस्कन्दमिवायान्तीं तां दृष्ट्वा सौधरक्षकाः । पलायाश्चक्रिरे भीतिश्लथमूर्धजबन्धनाः॥२७५।। असूनथ समादाय वनमाला भयद्रुता । सौधोत्सङ्गाद् ददौ झम्पां भयार्ताः किं न कुर्वते ॥२७६॥ निपतन्तीं द्विजः कश्चित् स्वामिदत्तप्रसत्तिवत् । वनमालां गृहीत्वाऽऽशु न्यक्षिपद् गर्भवेश्मनि।।२७७॥ बिभ्राणाः सुभटाः केचिद् रोमाश्चान् कवचानिव । कौक्षेयकान् समाकर्षन् यमजिह्वाभयङ्करान्।।२७८॥ केचिद् दृढतरं दत्त्वा भीत्या द्वारं स्तनन्धयान् । रुदतोऽपि निषेधन्ति दत्त्वा पाणिं मुखाग्रतः ॥२७९॥ अक्रियन्त प्रतोल्योऽपि दत्तद्वारा महाभटैः। निषिद्धलोकसंचारा महतीषु निशाखिव ॥२८०॥ नृपः कृत्वा समागच्छन् वाहाल्यां वाहवाहनम् । श्रुत्वा तुमुलमप्राक्षीत् किमेतदिति रक्षकान् ? ॥२८१॥ ततः कलकलं राजा निशम्योचे स्वरक्षकान् । किमागात् परचक्रं भोः! किंवाऽकाण्डयुगक्षयः॥२८२।। उवाच रक्षको ज्ञात्वा समुद्भूतं तदद्भुतम् । तच्छ्रुत्वा शून्यचेतस्कः सोऽभवद् गतवित्तवत्॥२८३॥ १ निषिद्धे तु इत्यपि पाठः। २ साक्षेपमिति च।