________________
मल्लिनाथमहाकाव्येइत्युक्ते तज्जनोऽवादीद् नाथ ! शोश्रूयतां वचः॥२५७॥ युष्मत्प्रसादपात्रं स नर्मकेलिर्विदूषकः।। रक्षणीयः प्रयत्नेन शपथैरपि सर्वथा ॥ २५८ ।। नर्मकेलिरथाऽवादीद् मुक्त्वा व्यतिकरं त्वमुम् ।. नान्यद् भोः! कथयिष्यामि यतःसत्ययुधिष्ठिरः।२५९। हहो! ग्रहिल ! मा ग्रामं ज्वालयेति निवारिते। स्मारितोऽहं शुभमिति लोकोक्तिः सत्यवाक् कृता॥२६०॥ इत्थं निर्भय॑ भूपालो नर्मकेलि विदूषकम् । न्यक्षेपयत् क्षणात् कारागारे नरकसनिभे ॥२६१॥ योगीन्द्रो भैरवानन्दी खवाङ्गीह समागमत् । तमुपासितुमेतर्हि गच्छामि मृगलोचने ! ॥२६२॥ व्यपदिश्यति भूपालो देवी चम्पकमालिकाम् । वनमालां नवावासवासिनीमभ्यपद्यत ॥ २६३ ॥ कियत्यपि गते काले देवी चम्पकमालिका। ब्राह्म मुहूर्ते विदुषी चिन्तयामास चेतसि ॥२६४॥ योगीन्द्रव्यपदेशेन निषिध्य स्वपरिच्छदम् । नवोढां योषितं काञ्चिद् यात्यसौ कपटे पटुः ॥२६५॥ विमृश्येति सहाऽस्तोकलोका चम्पकमालिका। यावत् कारागृहाभ्यर्णे संप्रापत् कोपनाऽऽशया॥२६६॥ तावदैश्यत सा देवी तत्क्षणं नर्मकोलिना । मेघदृष्टिरिव शुष्यच्छस्यौघेन कुटुम्बिना ॥२६७॥ करमूर्ध्व वितन्वानः शाखोद्धारमिवाऽऽयतम् । उवाच देवि! त्वत्कार्ये मम जातं निबन्धनम् ॥२६८॥ श्रुत्वेदं विस्मिता देवी तत्रागत्येत्युवाच सा । किमर्थं तव संजाता मम कार्ये हि दुःखता ?॥२६९॥ देवि ! श्रीविमलो राजा मृगयायामुपागतः। वनमालां परिणिन्ये प्रदत्तां तापसर्जनैः ॥ २७० ॥