________________
--द्वितीयः सर्गः। इत्युक्ते धरिणीभळ जगादर्षिर्महातपाः। . शुभाख्ये पत्तने भूमान् समभूद् मेघवाहनः ॥२४४॥ निजनाथमनःपान्थविश्राममान्तरमपा। तस्य लक्ष्मीवती देवी लक्ष्मीर्लक्ष्मीपतेरिव ॥२४५॥ वार्धकोत्पन्नवैराग्यो लक्ष्मीवत्या समन्वितः । गिरिगर्भाश्रमे रम्ये तापसव्रतवानभूत् ॥ २४६॥ देव्या पूर्वभवो गर्भः पूर्व राज्ञोऽप्रकाशितः । अवर्धिष्टाऽऽश्रमस्थाया वल्ल्याः फलमिवोच्चकैः॥२४७॥ सुषुवे सा सुतां कान्तां गङ्गेव स्वर्णपद्मिनीम् । वनमालेति नामाऽभूदस्या दत्तं महर्षिभिः ॥२४८॥ बाल्यावस्थां व्यतीत्याऽसौ वल्कलाम्बरधारिणी। रूपसौन्दर्यराजिष्णुयौवनं समुपाययौ ॥ २४९ ॥ अस्याः प्रियो भवानेव ज्ञानाज्ज्ञातो महीपते।। दिनाधिपं विना नान्यः कमलिन्या यतो वरः॥२५०॥ अर्थिनां कामधुक्कल्पः कल्पद्रुरिव जङ्गमः । लावण्यजलपाथोधिदृशां विश्रामपल्लवः ॥२५१॥ कलानामेक आधारः क्षत्रवंशसमुद्भवः । एवं विमृशतामत्रभवानत्र समाययौ ॥२५२॥ (युग्मम्) वल्लीनिभालिता यैव सैव लग्ना पदाम्बुजे । एकं हरिः परं गेहमायात इति सत्यगीः ॥२५३॥ इत्युक्त्वा कुलपो भूपं सुमुहूर्ते शुभे दिने । लक्ष्मीमिवाऽम्बुधिः कृष्णं पर्यणाययदङ्गजाम् ॥२५४॥ प्रणत्य मुनिमुर्वीशो निवृत्तः स्वपुरं प्रति । ऊचे परिजनं सर्व गिरा मेघगभीरया ॥२५५॥ यः कश्चिद् मोहतो लोभाद् यद्वा कलहकौतुकात् । इमां चम्पकमालायाः पुरतः कथयिष्यति ॥२५६॥ स्वयं गतदयं हन्त ! हनिष्याम्यहितं हि तम् । .,