________________
६४
मल्लिनाथमहाकाव्येसुधारसस्य किं तुल्यं त्रिजगत्यपि वर्तते ॥ २३०॥ तद्रूपं वीक्षमाणोऽहं निर्निमेषविलोचनः । कोऽहं कुतश्च किं नाम न जानामीति मत्तवत् १ ॥२३१॥ सर्वाश्चर्यनिधानाया यदि तस्या भवान् पतिः। पुरुषार्थस्तृतीयोऽपि ततः प्रथमतां गतः ॥ २३२ ॥ निशम्येदं महीपालो विमलश्चित्रिताशयः। तन्मार्ग दर्शयाऽस्माकमकारणसुहृत्तमः ।। २३३ ॥ तस्याध्वदर्शनेनाऽथ ध्रुवस्य गुरुपोतवत् । संचेरे धरिणीनाथस्तत्काननमहोदधौ ॥ २३४ ॥ दूरादेव समायान्तमवलोक्य तपोधनाः। उत्तस्थुरुदयाहार्योदिततिग्मांशुबिम्बवत् ॥ २३५॥ षडंशभागिने तस्मै पाद्यमर्थ्य यथाविधि । दत्त्वा कुशाऽऽसने राजा महर्षिभिनिवेशितः ॥२३६॥ तषां मुख्यो जगादैवं चन्द्रः कुलपतिस्ततः। . धन्या वयं यतो दिष्ट्या दृष्टस्त्वमसि तत्त्ववित् ॥२३७॥ भवते तत्रभवते सपर्या काञ्चनाऽधुना। करिष्यामोऽतिथिभ्यो हि प्रदत्तं श्रेयसे किल।।२३८॥ अथाह धरिणीनाथः पाथोनाथपृथुध्वनिः। युष्माकमिदमातिथ्यं यदाशीर्वादमङ्गलम् ॥ २३९ ॥ अथ प्रोवाच स ऋषिर्विहस्य जगतीपतेः । यदाशीर्वाददुष्पापं तद् मया दास्यतेऽधुना ॥२४०॥ ततः पुरस्थितां कन्यां धृतवल्कलवाससम् । साक्षात्सिद्धिमिवात्मीयामदीदृशदसौ ऋषिः॥२४१॥ उक्तिमत्युक्तिकालोऽयं नैवाऽस्माकं गुणानघ। परमेकां वरां कन्यां कृतार्थय करग्रहात् ॥ २४२ ॥ अथो बभाषे भूपालः केयं किं नाम कन्यका । कमलङ्कुरुते वंशं किमर्थमिह संस्थिता ॥ २४३॥