________________
द्वितीयः सर्गः। अभ्रंलिहगृहेष्वस्थात् प्रदत्तेष्वासनेष्विव ॥ २१७ ॥ सौधजालकनिर्गच्छद्धृपधूमं घनोपमम् । . विलोक्य केकिनः केका कुर्वते यत्र वेश्मगाः॥२१८॥ तस्मिन् बभूव भूपालो विमलो विमलाशयः। मूर्त्या सोमोऽपि यः सूरः प्रतापेन प्रकाशते ।।२१९॥ नाम्ना चम्पकमालेति पुष्पमालेव सद्गुणा । तस्यासीत् प्रेयसी प्रेमरत्नरोहणचूलिका ॥ २२० ॥ अन्येधुर्मगयाऽऽसक्तो महावनमगाद् नृपः । पीतवस्त्रपरीधानैः साकं व्याधैघृणोज्झितैः ॥२२१॥ ततो हेरम्बवत् केपि समुद्यतपरश्वधाः । केचित् प्राकारवद् भूरिन्यस्तयन्त्राः पदे पदे॥२२२॥ जघान निशितैः कुन्तैः कश्चिदाहूय शूकरम् । कश्चिच्छशग्रहव्यग्रो निलीनोऽस्थालतान्तरे ॥२२३ ॥ उड्डीनपक्षिपक्षोत्थविरावैः करुणाकरैः। अहो ! अन्यायवाक्यं तु व्याजहारेव काननम् ॥२२४॥ एतन्मरन्ददम्भेन रुदत्स्विव वनेष्विव । भयेन कम्पमानासु वल्लरीषु भुजाखिव ॥ २२५॥ केषुचित् पादहीनेषु धार्यमाणेषु केषुचित् । केषुचित् प्रोथहीनेषु पुच्छहीनेषु केषुचित् ॥ २२६ ॥ केषुचिद् बध्यमानेषु मार्यमाणेषु केषुचित् । केषुचिद् नश्यमानेषु श्वापदौघेषु सर्वतः ॥ २२७ ॥ इतश्च कश्चिदागत्य प्रणम्य परया मुदा । व्यजिज्ञपद् महीपालं कालं काननचारिणाम् ॥२२८॥
. .... (चतुर्भिः कलापकम्) देव ! ऋक्षाध्वचारेण गच्छता दूरतो मया। । एका निरीक्षिता बाला कामसंजीवनौषधम् ॥२२९॥ तस्या रूपप्रतिच्छन्दो दर्पणे यदि वीक्ष्यते ।