________________
मल्लिनाथमहाकाव्येप्रवज्यामाददे राजपुत्रः साकं तदन्तिके ॥ २०४ ॥ परिपाल्य चिरं चारु चारित्रं राजसंयमी । एकावतारः समभूद् वैजयन्ते स नाकसत् ।। २०५॥ तस्माच्युत्वा विदेहेऽसौ प्राप्य तीर्थङ्करव्रतम् । अक्षयं नीरुजं कान्तं निर्वाणपदमष्यति ॥ २०६ ॥ श्रुत्वेदं हन्त ! सत्पात्रं फलं न विकलं श्रिया । उवाच विस्मितो राजा राजमानो महाबलः ॥२०७॥ साम्प्रतं श्रोतुमिच्छामि गुरोः शीलनिदर्शनम् । उत्सुकोऽस्मीति गदिते बभाषे संयमीश्वरः ॥ २०८ ॥ सर्वेषामपि धर्माणां दुष्करं शीलपालनम् । इदं वशंवदं सर्व भुवनं पुष्पधन्विनः ।। २०९ ।। शीलं भावलतामूलं शीलं कीर्तिनदीगिरिः। शीलं धर्माब्दपाथोधिः शीलं पापगिरेः पविधा२१०॥ यथा महीपतिर्नीत्या यथा रात्रिः शशिद्युता। यथा च दयया धर्मो यथा पूर्वप्रसंपदा ॥ २११॥ यथा क्षान्त्या च निग्रन्थो यथा ग्रन्थः सदाख्यया । यथा ज्ञानं क्रिययाङ्गी तथा शीलेन भूष्यते ॥२१२।।
(युग्मम् ) . इलथसद्भावनाधर्मः स्त्रीविलासशिलीमुखैः । सुनयोद्वाहतोऽधस्ताद् निपतेच्छीलकुञ्जरात् ॥२१शा अकीर्तेः कारणं योषिद् योषिद् वैरस्य कारणम् । संसारकारणं योषिद् योषितं परिवर्जयेत् ॥२१४॥ सुशीलापावना काचित् स्तूयते विबुधैरपि । यथा पौतिकवृत्तान्ते श्रूयते वनमालिका ॥ २१५ ॥ तथाहि पुष्करद्वीपे कालम्भोधिमनोहरे । पुरं बिभूषणं नाम भूतधात्रीविभूषणम् ॥ २१६॥ .. निरालम्बपरिभ्रान्तो यत्र श्रान्तो दिवाकरः।