________________
द्वितीयः सर्गः। इतवागाद् मुनिः कश्चिद् मार्गभ्रष्टस्तदन्तिके ॥१९१।। दिष्ट्या दृष्टा मुनिं दध्यौ धन्योऽहं यदसौ मुनिः। मया दृष्टो महारण्ये कल्पद्रुम इवाऽङ्गवान् ॥ १९२ ॥ तदेव भोजनं शस्यं यद् दत्तं गुरवे भवेत् । सैव प्रज्ञा यया पापं न कुर्याद् विधुरेष्वपि ॥ १९३ ॥ विमृश्येदं विशुद्धात्मा भूरिभावविशेषतः।। द्विः करम्बेण पीयूषशीतेन प्रत्यलाभयत् ॥ १९४ ॥ तवाभ्यर्णचरचण्डो भवन्तं दानतत्परम् । विलोक्य धन्योऽयमिति मुहुस्त्वामन्वमोदत ॥१९५॥ वसन्ती जगतीं प्राप त्वत्सार्थेन महामुनिः। क्रमेण च भवांल्लेभे सौधर्मे त्रिदशश्रियम् ॥ १९६ ॥ अथ च्युत्वा भवाञ्जझे नरेन्द्रः पबशेखरः। । करम्बदानाद् द्विलाभोऽभवद् राज्यद्वयस्य ते ॥१९७॥ चण्डोऽपि क्रमशो जज्ञे तस्मिन् यक्षो महावने । भवान् यत्र समायातो देवीकूटप्रयोगतः ॥ १९८ ॥ यक्षेण फणिनो रूपं विधाय त्वं च रक्षितः। संहृतं तव खर्वत्वं राज्यलक्ष्मीसमागमे ॥ १९९ ॥ अहो ! सुपात्रदानस्य यत् फलं जायतेऽङ्गिनाम् । वागीशोऽपि गिरां गुम्फैस्तद् वर्णयितुमक्षमः॥२०॥ यत्वयाअच्छि भूनाथ ! समुपार्जितकर्मणाम् । विपाको बन्धसत्तात्मा चतुर्गतिनिबन्धनम् ॥२०१॥ स विपाकः क्षितेर्नाथ ! सर्वकर्मलतापनः । जिनभर्तुर्विना दीक्षां बध्यमानो न रक्ष्यते ॥ २०२॥
यतःप्रव्रज्या भवपाथोधिनिस्तारणतरीनिभा । प्रव्रज्या साम्यमाकन्दवसन्तसमयोपमा ॥ २०३ ।। श्रुत्वेदं पद्मभूपालो राज्यसौस्थ्यं विधाय च । ...