SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६० मल्लिनाथमहाकाव्ये आससाद पुरं चापि स त्वरितबलान्वितः ।। १७८ ॥ अन्येद्युः कोऽपि निर्ग्रन्थो ग्रन्थवद्वर्णभाखरः । सतत्त्वः सज्जनानन्दी पूर्व हि समवासरत् ॥ १७९ ॥ तं वन्दितुं महीनाथः सनाथः परया मुदा । अगादुपवने तस्मिन् महामुनिपवित्रिते ।। १८० ॥ प्रणम्य परया भक्त्या सुखासीने क्षितीश्वरे । महामुनिरुवाचेदं मोहध्वान्तदिवामुखम् ।। १८१ ॥ अमुष्यां संसृतौ सर्वमस्थैर्यस्य मुखं सुखम् । दाराः कारागृहाणीव जीवितं फेनवच्चलम् ॥ १८२ ॥ श्रुत्वेदं पद्मभूपालो भववैराग्यभावतः । अवोचत प्रभो ! कर्मविपाकेभ्यो विभेम्यहम् ॥ १८३॥ कर्मबन्धच्छिदं कञ्चिद् मार्गे सन्मार्गदेशक ! | निवेदय परं पूर्वभवं श्रोतुं समुत्सुकः ॥ १८४ ॥ अथाभ्युवाच निर्ग्रन्थः पुरातनभवेऽभवः । भाल्लूकनामानि ग्रामे जिनदत्तः कृषीवलः ॥ १८५ ॥ भीष्मे ग्रीष्मे त्वमन्येद्युर्गृहीत्वा शकटावलीम् । अनेकैः किंकरैः पूर्णामायासीभमकाननम् ॥ १८६ ॥ लङ्कोद्देशमिवोत्ताल पलाशशतसंकुलम् । गेयवद् विलसत्तालं सशालं नगरं यथा ॥ १८७ ॥ पाण्डुपुत्रमिव दर्जुनेन प्रसाधितम् । हरिवक्ष इव क्रीडद्वनमालाविभूषितम् ॥ १८८ ॥ (त्रिभिर्विशेषकम् ) कांश्चिदुच्छेदयामास मूलादपि विरोधिवत् । शाखोपशाखाविकलां के कांचन भूपवत् ॥ १८९ ॥ गगनाङ्गणमाध्यस्थ्यं गते गगनदीपके । अगाः समं कर्मकरैः सरो मानसविभ्रमम् ॥ १९० ॥ हस्तपादादिकं शौचं विदधुः किंकरास्तव ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy