________________
वित्रं चरित्रम् । अन्त वितानि चात्र श्रीमल्लिमित्रषटककथानकानि । अन्या अपि लोकप्रबोधविधायिन्यो बयः कथाश्च व्यावर्णिताः । तत्र तत्र चानुरूपं सुन्दरं सकलरसावर्षि संवर्णनमपि पाठकहृदयकोशप्रवेशं प्रापितम्। समावेशितानि चात्र महाकाव्यनिखिललक्षणानि । इति सर्वैरेव प्रकारैरयं चरितग्रन्थः चरितग्रन्थेषत्तमं स्थानं लम्भितः ।
इमे चाचार्यपूज्या अन्यानपि कल्पनिरुक्त-श्रीपार्श्वचरितप्रभृतीन् ग्रन्थान् जग्रन्थुः, व्यशूशुधश्च धर्मविधिवृत्तिप्रमुखानल्पग्रन्थान् । एतेषां च सूरिवराणां ग्रन्थग्रन्थितृत्वं ग्रन्थशोधकत्वं चेदमुभयं तदपूर्वादृष्यवैदुष्य-लोकोपकारकत्वाऽन्यथानुपपद्यमानं तेषां परमकारुणिकत्वं संकलशास्त्रनिष्णातत्वं च स्पष्टं निष्टङ्कयति ।
संशोधकाश्चास्य शोधकप्रकाण्डतां गताः श्रीप्रद्युम्नसूरयः, येषां शोधननैपुण्यं बहवः कविकुञ्जरा व्यावर्णयांबभूवांसः। अतोऽपि चरित१ यदाह धर्मकुमारपण्डितः खीये शालिभद्रचरित्रे प्रतिप्रक्रमम्
"श्रीशालिचरिते धर्मकुमारसुधिया कृते । श्रीप्रद्युम्नधिया शुद्ध" अन्त्यप्रक्रमे च"इयं कथा वृद्धकुमारिकेव सदूषणा भूषणवर्जिताऽऽसीत् । प्रद्युम्नदेवस्य परं प्रसादाद् बभूव प्राणिग्रहणस्य योग्या" ॥ १५३ ॥ तेषां च श्रीविनयचन्द्रसूरिकृत श्रीमल्लिनाथमहाकाव्यम् , श्रीप्रभाचन्द्राचार्यविरचितं श्रीप्रभावकचरित्रम् , श्रीदेवेन्द्रसूरिप्रणीतः श्रीउपभितिभवप्रपञ्चकथासारोद्धारः, श्रीरत्नप्रभसूरिविहिता श्रीकुवलयमालाकथा, श्रीबालचन्द्रसूरिनिर्मिता श्रीउपदेशकन्दलाटीका श्रीविवेकमजरीटीका, श्रीउदयप्रभसूरिरचिता उपदेशमालाकर्णिकाटीका चेत्यादितात्कालिकबहुग्रन्थानां संशोधकत्वन ग्रन्थसंशोधननैपुण्यम् , श्रीसमरादित्यसंक्षेपादेः स्वतन्त्रं संविधानेन च शास्त्रवैशारद्यं च सुतरां प्रतीतम् । ये पुनस्तदानीन्तनाचार्यैबाढं समानिता बभूवुरित्यपि श्रीमानतुङ्गाचार्यविरचितश्रीश्रेयांसनाथचरित्रान्तर्गतेन
"शिष्यः श्रीकनकप्रभस्य सुकविः श्रीबालचन्द्रानुजो ज्यायान् श्रीजयसिंहतः प्रतिभया श्रीवस्तुपालस्तुतः । अस्मद्गोत्रमहत्तरः कविगुरुः प्रद्युम्नसूरिप्रभु. विद्वदवृन्दकवित्वशोधनधनो ग्रन्थं मुदाऽशोधयत्" ।। १॥
इति पद्येन व्यक्तमाविर्भवति ।