________________
मिदं विशेषण महत्त्वमचकलत् ।
___ एतस्य श्रीमल्लिचरितस्य पुस्तकचतुष्टयमावां प्राप्तवन्तौ, तदर्थ च तदर्पयितृन् नामग्राहमभिवन्दावहे१ श्रीमल्लिचरितमस्मद्गुरूणां श्रीशास्त्रविशारदजैनाचार्यश्रीविज
यधर्मसूरीणां शुद्धदेश्यम् । २ " " पुण्यपत्तनस्थडक्कनकॉलेजाख्यपुस्तकालयस्य, नात्यशुद्धम् । ३ " " मुनिमोहनलालजिपुस्तकालयस्य, अशुद्धम् । ४ " " स्तम्भनपुरस्थधर्मशालाभिधभाण्डागारस्य, अपूर्णम् ,
. शुद्धप्रायं च । तदेवं पुस्तकचतुष्टयमाश्रित्य संशोधितम् , तत्र तत्र पाठान्तरितं च चित्ताह्लादकमिदं चरितं सकर्णा निजविमलनेत्रसन्निकर्षाद् नाययन्तु स्वीयनेत्रे पावित्र्यम् । पठित्वा चैतत् त्यजन्तु कपटनाटकपाटवपटं पटवः, मुनयश्च लोकयन्तु कर्मनरपतिवैचित्र्यम् , मुच्यतां च सकलो लोकः, उत्साहयन्तु चास्मत्परिश्रान्तिम् , संशोधयन्तु सूचयन्तु च मतिमान्द्यसहभूनि दृग्दोषहेतूनि सीसकाक्षरयोजकजातानि च दूषणानि हंसन्तः समन्ततः सन्तः ।
अस्य च मुद्रणादिव्ययदातुः परमोदारश्रीश्रेष्ठिप्रवरगोकुलभाइतनुजनुषो वदान्यवरेण्यस्य श्रीश्रेष्ठिवरमणिलालस्य परमं धन्यवाद समर्पयावः ।
इति
निवेदयतोहरगोविन्द-बेचरदासौ।