________________
५८
मल्लिनाथमहाकाव्येअस्मिन् बद्धे धनुर्दण्डे निद्रात्यरिबलं रणे ॥१५१॥ अथो तिरोदधे देवी तत्सत्वालोकविस्मिता। राजापि नितरां दधे परमामोदसंपदम् ॥ १५२ ॥ अथान्येार्यशो नाम दूत एत्य व्यजिज्ञपत् । देव ! चन्द्रकलापुर्या भूमीनाथः परन्तपः ।। १५३ ॥ तस्य सोमाङ्गभूः सूरः पद्मो यशोमतीभवः । भुजाविव सममाणावभूतां तनुसंभवौ ॥ १५४ ॥ कैतवेन विनिक्षिप्तः सोमया पद्मशेखरः। तद्वियोगेन भूपालः परलोकमुपेयिवान् ॥ १५५ ॥ - - बभूव तत्पदस्वामी सूरः सोमासमुद्भवः । सोऽपि त्वद्देशभागेषु समागाच युयुत्सया ॥ १५६ ॥ सहजं कृत्रिमं वापि यत्तु वैरं समं मया । तदहं वेनि नः स्वामिन् ! गूढमन्त्रः स भूपतिः॥१५७॥ सोऽयं भवानिवाऽऽकृत्या लक्ष्यतेऽलक्ष्यतेजसा। .: युवयोर्न तिलेनापि भेदः क्षीराम्बुनोरिव ॥ १५८ ॥ तत्क्षणं कणिकागुप्यद्गुर्वादिभिरनेकशः। व्यानशे नगरीबाह्यप्रदेशोऽङ्गीव कर्मभिः ॥ १५९ ॥ बभूवुर्मण्डलाधीशाः सर्वसन्नहनोद्यताः। जहपुर्वीरभोगीणवाहवो बाहुसंभवाः ॥ १६० ॥ : विन्ध्याद्रिभूरिवाऽऽभाति निर्यद्भिर्भूर्मतङ्गजैः। हयैश्च सिन्धुवाहीकाऽऽकरनिर्मितवद् भृशम् ॥१६॥ सुषमाकालजातैर्वा पत्तिभिश्च पदे पदे । स्थैरनेकनिष्पन्नप्रद्योतनरथैरिव ॥ १६२॥ प्रयाणैरुत्पयाणैश्च बहुभिः पद्मशेखरः। खकीयदेशसीमस्थः समभूद् भूरिसैन्यवान् ॥ १६३ ॥ सूरोऽपि निकटीभूय तस्थिवान् बलमेदुरः। आवाससंस्थया बिभ्रत् सार्वभौमबलश्रियम् ॥१६॥