________________
द्वितीयः सर्गः ।
५७ सर्वेऽप्यास्त्वयि सति प्राप्यन्ते पाणिपङ्कजे। ' : न नरस्त्वां विना भाति वक्ता निर्लक्षणो यथा ॥१३८॥ अर्थास्तावद् गुणास्तावत् तावत् कीर्तिः समुज्ज्वला । यावत् खेलसि सत्त्व! त्वं चित्तपत्तनमध्यगः ॥१३९॥ निशम्येदमुवाचाथ सत्त्वनामा महामतिः। । देव! स्थास्यामि यौष्माकगुणसंबन्धवद्धधीः ॥१४०॥ इतोऽभाणि श्रिया देव्या हंहो! दान! नरोत्तम । नैवाद्यापि समायाति सत्त्वनामा महाबलः॥१४१॥ वयमेकाकिनः सर्वे तमेकं पुरुषं विना । लोचनं हि विना सर्वमङ्गोपाङ्गं हि पङ्गुवत् ॥१४२॥ ततो दाननरोऽचालीदाहातुं सत्त्वपूरुषम् । वृपपार्श्व समागत्य दृष्ट्वाऽमुं तत्र संस्थितः॥१४३॥ अनायाते नरे दाने दध्यौ लक्ष्मीः स्वचेतसि । बन्दिग्राहेण मां कश्चिद् ग्रहीता गतयामिकाम् ॥१४४॥ अथ श्लोकेन सा साकं समागत्य नृपाग्रतः । उवाच देवी भूपालं दीप्यमाना रदद्युता ॥ १४५ ॥ देवाऽहं पद्रदेव्यस्मि त्वत्पुरद्वारवासिनी। मत्सखी चन्द्रभागाऽस्मि चन्द्रज्योत्स्नेव निर्मला॥१४६॥ तयाऽभाणि विहस्येदं तव नव्यस्य भूपतेः । किं यदस्तितरां सत्वं राज्यश्रीप्रतिभूनिभम् ॥१४७॥ ततो दारिद्यनामाऽयं मया चक्रेतरां नरः। तव सत्त्वपरीक्षायै महासत्त्वशिरोमणेः ॥ १४८ ॥ वरं वृणु महाभाग ! तुष्टाहं तव साहसात् । अथोवाच नृपो देवि! हृषितासि यदि स्फुटम्॥१४९॥ शत्रोरमारकं राज्यलक्ष्मीवृद्धिनिबन्धनम् । वरं प्रयच्छ मे देवि! यदि तुष्टासि सत्यतः॥१५०॥ अंथ तस्मै ददौ देवी दिव्यरत्नं स्फुरत्प्रभम् ।