________________
५६
मल्लिनाथमहाकाव्ये
इत्थमुक्त्वाथ देवी श्रीनिर्ययौ राजवेश्मनः । इतश्चागाद् नरः कोऽपि पुरस्तात् पृथिवीपतेः || १२५॥ अथाभ्युवाच भूपालः कस्त्वं कस्मात् समागतः ? | सोsप्यूचे देव ! दानाख्यं पुरुषं मां विचिन्तयेः ॥ १२६॥ यत्र लक्ष्मीरवस्थानं तनुते सुकृतोदयात् । प्रायशस्तत्र तिष्ठामि मराल इव मानसे ।। १२७ ॥ चिरं स्थितस्तवाssवासे प्राप्तं लक्ष्मीफलं मया । यास्यामो वयमेतर्हि स्वस्ति तुभ्यं महात्मने ॥ १२८॥ इत्थं दाननरो भूपं प्रत्युक्त्वाऽथ श्रियं प्रति । चलितो दत्तसंकेत इव राजनिकेतनात् ॥ १२९ ॥ इतश्रागाद् नरस्तद्वत् पुरतः पृथिवीभुजः । देव ! त्वं विद्धि मां श्लोकनामानं वेगवत्तरम् ॥१३०॥ लक्ष्मीलताफलं यत्र देव ! दानं विजृम्भते । तत्राहं सततं कुर्वेऽवस्थानं गुणवद्धवत् ।। १३१ ॥ तूष्णींभाजि महीनाथे श्लोकनामा नरः क्षणात् । तत्पादाभ्यामचलत् तदाहूत इवोच्चकैः ।। १३२ ।। इतश्च चण्डकोदण्डं दोर्दण्डे कलयन् कलम् । प्रादुर्बभूव मनुजः कोऽपि कार्तस्वराकृतिः ।। १३३ ।। कस्त्वं भवसि भूपेन पृष्टे सति महात्मना ।। सोऽभाषिष्ट वचश्चारु रूप्यघर्घरनिस्वनः ॥ १३४ ॥ भूपते ! सच्वनामानं मां विद्धि नररूपिणम् । श्रियं प्रति प्रयातास्मि न स्थास्यामि तवान्तिके ॥ १३५ ॥ विहस्येत्यगदद् राजा त्वां समुद्दिश्य चित्तगम् । गृहीतमिदमुद्दामं दारिद्र्यं दयितान्वितम् ॥ १३६ ॥ श्रीर्यातु यातु दानं च यातु श्लोकोऽपि लोकतः । गमनमा जीवमनुमन्यामहे वयम् ।। १३७ ॥