________________
द्वितीयः सर्गः। गृहीतं किमिदं गाढक्रोशायैतत् क्रयाणकम् ? ॥१११॥ इत्थं पौरजनोद्गीर्ण शृण्वानो वाक्यताण्डवम् । पर्यभ्राम्यदसौ पुर्या भूतात इव सर्वतः ॥ ११२ ॥ परिभ्राम्यन् परिभ्राम्यन् राजसौधमसौ गतः। . इतश्च तं गवाक्षस्थो वीक्षाञ्चक्रे क्षितीश्वरः ॥११३॥ तमाश्वाकारयामास मूर्तव्यसनचक्रवत् । सोऽप्यागत्य प्रणत्यैनं बभाषे योजिताञ्जलिः॥११४॥ देवैतद् देवतादत्तं दारिद्यं पुरुषाकृति । न केनापि गृहीतं तद् दधता सत्त्वमद्भुतम् ॥ ११५ ॥ अस्मिन् सत्त्वविनिर्मुक्ता वसन्ति पुरवासिनः। असात्त्विकं पुरं सर्वमिदं स्वामिन् ! त्वया विना ।११६॥ इत्थं तस्य वचः श्रुत्वा बभाषे नरपुङ्गवः । अर्पयाऽमुं गृहाण त्वं. स्वर्णलक्षं निजं यथा ॥११७॥ गृहीते सति दारिद्यपुरुषे धरणीभुजा । तद्भयादिव मार्तण्डो ययौ पश्चिमभूधरम् ॥ ११८ ॥ दौर्भाग्यमिव दारिद्ये प्रससार तमस्ततिः । दूराद् ध्वस्तो गालोकः साधुवाद इव द्रुतम् ॥११९॥ इतश्च स्मेरराजीवं दधाना करपद्मयोः । लक्ष्मीः प्रादुरभूदग्रे पुण्यक्षीराम्बुधेः सुता ॥१२०॥ देव! यस्मिन्नयं भद्रः सुखं खेलति कौतुकी। अहं तत्र न तिष्ठामि सतीव गणिकौकसि ॥ १२१॥ अहो ! विदधताङ्गेऽहं सत्य आभानकः कृतः। ऊर्णायुः प्रज्वलंस्तार्णपाणीकसि निविक्षिपन्॥१२२॥ कार्य किमपि नो कार्यमविचार्य विचक्षणैः। प्रत्यक्षेणाऽनुमानेन परीक्षा च विधीयते ॥ १२३ ।। अविचार्य कृते कार्ये पश्चाद् बुद्धिविचारणम् । सेतुबन्धनवद् धिर धिग् गतपाथसि भूयास ॥१२॥