________________
५४
मल्लिनाथमहाकाव्ये
विज्ञातनिष्फलोपायो ऽसुकृताद्वैतमावहन् । उपवासान् वितन्वानः पददेव्याः पुरोऽपतत् ॥ ९८ ॥ महाशक्त्योपवासेषु कृतेषु निशि देवता । प्रादुरासीत् पुरस्तस्य दीप्यमाना तनुद्युता ॥ ९९ ॥ वरं वृणु महाभाग ! तुष्टाऽहं तव साहसात् । सुत्रमेक्षणवद् मोघं नाऽस्माकं दर्शनं यतः || १०० ॥ यदि तुष्टाऽसि पद्रेशे ! स्वर्णलक्षं प्रयच्छ मे । अन्यथा मम वाञ्छदुर्गतमूलः पतिष्यति ॥ १०१ ॥ स्मित्वा पद्रेश्वरी प्रोचे स्वर्णलक्षं न संनिधौ । ममास्ति भद्र ! किन्तूच्चैरुपायं दर्शयामि ते ॥ १०२ ॥ अथाभ्यधादसौ देवीमुपायं प्रकटीकुरु । न किं कलान्तराकृष्टाद् वित्ताद् वित्तमुपार्ज्यते ।। १०३ ॥ गृहाण पुरुषाकारं नरं मृत्स्नामयं तनु । दारिद्र्यमस्य नामेति दुःस्थितादयितान्वितम् ॥ १०४ ॥ स्मित्वाददसौ देवि ! प्रणतवत्सले ! | दारिद्र्यस्य प्रसादेन प्राप्त एतादृशीं दशाम् ॥ १०५ ॥ अनेन निधनेनेव न मे कार्य कदाचन । यास्यामि निजसंस्त्यायं लाभो मम तपस्यभूत् ॥ १०६॥ पुनरप्यवदद् देवी कश्चिदेनं विनिश्चितम् । ग्रहीता स्वर्णलक्षेण दधानः सत्वमद्भुतम् ॥ १०७ ॥ नो चे तुभ्यं प्रदास्यामि स्वर्णलक्षमसंशयम् । पुत्रस्येव तवानेन न कुर्वे विप्रतारणम् ॥ १०८ ॥ आदेशपमितिर्मेऽस्तु निगद्येति स पूरुषः । दारिद्र्यपुरुषं मूर्ध्नि न्यस्याऽस्माद् निरगाद् नरः॥ १०९॥ किमिदं लभ्यते भद्र ! पृष्टे सति पुरीजने । दारिद्र्यं स्वर्णलक्षेण प्राप्यते दयितान्वितम् ॥ ११०॥ हा ! पाप ! पाप ! हा! तापकारणं सुखवारणम् ।