________________
द्वितीयः सर्गः। सुष्वाप सहकारस्य च्छायायां पद्मशेखरः॥ ८४ ॥ इसश्चागत्य तत्पादाङ्गुष्ठं चश्चनखप्रभम् । अचालयत् कराग्रेण नरः कश्चिद् महामनाः॥ ८५॥ अथ निद्रां परित्यज्योपाविक्षत पद्मशेखरः। . कस्त्वं भवान् कथं निद्राविद्रावणपरोऽसि मे ॥८६॥ सोऽप्युवाच महाभाग ! पुरं शोभापुराभिधम् । अत्रास्ति भूपतिः सोमः सोमान्वयविभूषणम् ।।८७॥ तस्याहं सचिवाधीशः सुबुद्धिर्नाम सन्मते ! । मम राज्यभरं राजा न्यस्तवान् धुर्यवञ्चिरम् ॥८॥ भद्र ! सोमनृपो देवादाक्रान्तोऽस्ति रुजा भृशम् । यत्र मन्त्र इवाऽकर्णे निष्फला औषधक्रियाः॥८९॥ दुश्चिकित्स्यनृपव्याधिवीक्षणाञ्चिन्तयाऽऽकुलः । अहं निर्गमयामास दिनं संवत्सरोपमम् ॥ ९०॥ निशायामद्य निद्राणे माय काचन देवता। एवमादेशयामास मा मा चिन्तातुरो भव ॥ ९१ ॥ यः प्रातः सहकारस्य च्छायायां मार्गखेदतः । शयितं वीक्षसे राज्ये तं भद्र ! विनिवेशयः ॥ ९२ ॥ पद्मशेखर इत्यस्य नाम स्थाममनोहरम् । यस्माद् राज्यश्रियो वृद्धिः संभविष्यति निश्चितम्॥१३॥ सत्याकर्तुमहं मन्ये भवदागमनोत्सवः । समायातोऽसि नो भाग्यैः पाहि राज्यमखण्डितम्॥१४॥ ततः पयो निजं दृष्ट्वा वपुर्नैसर्गिकाकृति । अचिन्तयदहो ! कीहक् पुण्योदयविजृम्भितम् ॥१५॥ अथ राज्येऽसको न्यस्तो भूपोऽभूत् पद्मशेखरः। पुण्यानि सहचारीणि विदेशेऽपि महात्मनाम् ॥१६॥ इतश्च तत्रैव पुरे परकर्मोपजीवकः ।....... महोदराख्यया. ख्यातः समभूत् कुलपुत्रकः ॥९७॥