________________
मल्लिनाथमहाकाव्येअहो ! अस्य कठोरत्वं कुलिशेनेव निर्मितम् । अहो ! अस्य द्विजिह्वत्वं यथार्थमिक लक्ष्यते ॥७१॥ विमृश्येत्यचलत् पझ उत्तरां प्रति सत्वरम् । इतश्चैक्षिष्ट निश्छिद्रां रजोराजी प्रसर्पिणीम्॥७२॥ शृणोति स्म तुरङ्गाणां स्फुरत्खुरपुटारवम् । जयश्रीकरकेयूरतारात्कारसुन्दरम् ॥ ७३ ।। अस्त्राणि दीप्यमानानि दिवाकरकरोत्करैः। दृष्टवानवनीनाथसूनुः सौर्यगृहा इव ॥ ७४ ॥ उपलक्ष्य स्वकीयं तद् बलं बलवदाकुलम् । अपृच्छत् सादिनं कश्चिद् नामतः प्रकटाक्षरम् ।।७५।। अथाऽसौ न्यगदचन्द्रकलायां पुरि भूपतिः । परन्तपः सुतस्तस्य पद्मशेखरनामकः ॥ ७६ ।। मयोदास्तम्भमुन्मूल्य महान् मत्त इव द्विपः । देवीं यशोमती कामात् प्रार्थयामास पद्मकः ॥७७॥ अग्राह्यनामा नष्टः स चण्डकादङ्गरक्षकात् ।। तस्मादिदं बलं भद्र ! प्रेषितं दिक्षु सर्वतः ।। ७८ ॥ अन्यच्च मामकं नाम कथं विज्ञातवानसि । पद्मोऽप्युवाच त्वद्वस्वाञ्चलाऽक्षरविलोकनात् ॥७९॥ ततः पद्यो महाटव्या निःससार भवादिव। ... भुजङ्गकृतखर्वत्वं चिन्तयन् जीवनौषधम् ।। ८०॥ मस्या विनिर्गतः पद्मः प्राप शोभापुरं पुरम् । इतश्च चण्डो मार्तण्डो नभोमध्यं व्यगाहत ॥ ८१॥ नखम्पचासु धूलीषु दुःसञ्चारेषु वर्त्मसु । बिभ्राणेष्विव निक्षिप्तकारीपानलविभ्रमम् ।। ८२ ॥ हर्षादध्ययनस्थानाद् गृहीत्वा पुस्तिकावलीम् । बठरच्छात्रवर्गेत्तिष्ठत्सु निजकासनात् ॥ ८३॥ मार्गभ्रमपरिश्रान्तः क्षुधाक्षामकडेवरः।. .