________________
द्वितीयः सर्गः ।
सुस्नेहपात्र संस्थायिदीमा दीपशिखा यथा । मलिनी तनुते लोललोचना निजमाश्रयम् ॥ ५८ ॥ एवं विभाव्य शुद्धात्मा विमुच्य नगरं निजम् । उत्तराशामुत्तराशः प्रतस्थे पद्मशेखरः ।। ५९ ॥ व्याधव्याहतसारङ्गशुन्य भ्राम्यन्मृगीकुलाम् । विलोक्यमानपारीन्द्रपादां पांशुलभूमिषु ॥ ६० ॥ नाहलैर्वद्धगोष्ठी के ज्ज्यमानपशुव्रजाम् । बंभ्रम्यमाणनिस्त्रासयोगिनीशतसङ्कुलाम् || ६१ ॥ कापालिकजनारब्धघोरमन्त्रप्रसादनाम् । निशम्यमान शार्दूलक्रूर फुत्कारदारुणाम् ॥ ६२ ॥ भववद् विपुलाकारां प्रेतभर्तुः प्रियामिव । दिनैः कतिपयैः पद्म आपपात महाटवीम् ॥ ६३ ॥ ( चतुर्भिः कलापकम् ) इतश्च पन्नगः कोऽपि नीचैः कृतमहाफणः । दैवदग्ध व श्यामो ददृशे तेन मार्गगः ॥ ६४ ॥ मन्दं मन्दं जगादाऽसाविति मानुष्यभाषया । कुमारवर ! मां पाथस्तृषार्त पाययाऽधुना ॥ ६५ ॥ अन्यथा मम जीवडुः शोषं यास्यति सत्वरम् । खिनेषु दुःखितेषूच्चे महात्मानः कृपापराः ॥ ६६ ॥ पश्चात् तव करिष्यामि परामुपकृतिं सखे ! | विस्मरिष्यसि न त्वं मां मनस्याऽऽहितया यया ॥ ६७ ॥ ततः कुमारः संप्राप्य नीरं तीरवतीभवम् । पन्नगं पाययामास नलिनीनालचर्यया ॥ ६८ ॥ अथाभवदसौ वेगाद् दिव्यरूपधरो नरः । दधानः करराजीवे चारु काञ्चनपङ्कजम् ॥ ६९ ॥ आहत्य करपादेन पद्मोऽसौ वामनीकृतः । अहो ! तस्योपकारस्य
तेन पिना ॥ ७० ॥
.0.
५१