________________
मल्लिनाथमहाकाव्येगततेजः कथं जातं सोमे ! सोमवरानने ! ? ॥४४॥. तवाज्ञाखण्डनं मोहाद् मादृशेन विनिर्मितम् । यदेवं कोपसंस्त्याये मोहभित्तिघने स्थिता ॥४५॥ अथाऽभ्युवाच भूपालं सोमा श्यामास्यमण्डला । । चित्तेन धर्तुं नो वक्तुं शक्यते यत् तदाऽभवत् ॥४६॥ अथो निर्बन्धतः पृष्टा दत्त्वोच्चैः शपथावलीम् ।। हृतनिःशेषसारेव साऽप्यूचे गद्गदाक्षरम् ॥ ४७॥ : तव वल्लभपुत्रेण पद्माख्येन स्मरान्थ्यतः। अभ्यर्थिता कृतस्नेहं प्रदोषे कुलरेणुनो ॥४८॥ . निशम्येदं महीपाल: कोपाटोपं विनिर्ममौ । युक्तियुक्तं वचो नैतदविचार्येति चेतसा ॥ ४९॥ : आहूय चण्डनामानमगरक्षं निशागमे । मारणीयो नवैारैर्भवता पद्मशेखरः ॥५०॥ इत्यादेशं नृपो दत्त्वा त्यक्तोद्गारमिव क्रुधम् । सौख्यभागी बभूवाशु कोपान्धानां कुतो मतिः॥५१॥ चण्डागरक्षकः सोऽथ लब्ध्वाऽऽदेशं सुदुःश्रवम् । विजने कथयामास पद्मस्य पुरतोऽखिलम् ॥ ५२ ॥ अश्रद्धेयमिदं श्रुत्वा कुमारो हृद्यचिन्तयत् । अप्रसादः कुतस्तातपादैर्मम विनिर्ममे ? ॥ ५३ ॥ पप्रच्छ चण्डमुर्वीशनन्दनः किमु कारणम् । भवानाकारभावज्ञो दैवज्ञ इव वर्तते ॥ ५४॥ चण्डोऽवदद् विमातुस्ते मन्ये कपटनाटकम् । नृपेङ्गितात्, क्रियातत्त्वं प्रत्ययादिव पण्डितः ॥ ५५ ॥ " ततोऽनया स्फुटं कृत्वा कूटं किञ्चित् कठोरया । व्यामोहितो महीपालश्छाया लेखनया यथा॥१६॥ जगन्मोहनिदानाय दुर्लक्षाय बुधैरपि । विवेकिजनमुक्ताय स्त्रीवृत्ताय नमोनमः ॥ ५७ ॥