________________
द्वितीयः सर्गः ।
अथो दन्तांशुभिः शुभ्रैज्र्ज्योत्स्नाव्यतिकरैरिव । सौधवच्छुभ्रयन् भव्यानुवाचेदं महामुनिः ॥ ३१ ॥ चतुर्गतिकसंसारक्षारवारांनिधाविव । पोतोपमानाश्चत्वारो धर्मा दानादिका अमी ॥ ३२ ॥ तेषां मध्याद् दानधर्मः पृथक्कृत्य वितन्यते । यः सिषेवे जिनाधीशैरावर्ष हर्षवर्षिभिः ॥ ३३ ॥ सर्वेषामपि जीवानां देहः सुकृतसाधनः । पुद्गलैः स तु निष्पन्न आहाररससंभवैः ॥ ३४ ॥ आहारैः माशुकैर्ये तु दानं ददति साधवे । ते सौख्यभाजिनो राजन् ! भवन्ति जिनदत्तवत् ॥ ३५ ॥ तथाहि पुष्करद्वीपे पुरी चन्द्रकलाइया । अभिधानविधानाभ्यां तत्र राजा परन्तपः ॥ ३६ ॥ तस्य सोमायशोवत्यौ हरस्येवाऽद्रिजनुजे । अमेयरूपलावण्ये पट्टदेव्यौ बभूवतुः ॥ ३७ ॥ पद्मशेखर आद्यायाः सोमायाः सूर इत्यपि । विमातृजावपि प्रीत्या तौ पुत्रौ युग्मजातवत् ||३८|| युगपज्जाग्रतोस्तुल्य हर्षयोस्तुल्यशोकयोः । आजन्माऽजायत प्रीतिरेतयोर्नेत्रयोरिव ॥ ३९ ॥ अन्येद्युः सोमयाऽध्याय सपत्नीजेऽत्र जीवति । कथं मामकपुत्रस्य राज्यं सूरस्य संभवि ९ ॥ ४० ॥ सापत्नेयश्च रोगश्च नोपेक्ष्यौ हितमिच्छता । मूलादेव समुच्छेद्यौ विषवृक्षाविवोद्गतौ ॥ ४१ ॥ विचिन्त्येति महादेवी सोमालीकप्रकोपना । वासागारे निलीयाऽस्थाद् मेघच्छन्नेन्दुकान्तिवत् ॥ ४२ ॥ प्रमादवशतो भ्रष्टविद्यां विद्याधरीमिव । सोमां वीक्ष्य नृपोऽप्यूचे प्रेममन्थरया गिरा ॥ ४३ ॥ उत्तरायणतिग्मांशुबिम्बवद् वदनं तव ।
४९