________________
मल्लिनाथमहाकाव्येइदं राज्यं कुमारेऽस्मिन् यत् त्वया विनिवेश्यते ।। विचार्य तत्र किश्चिद् नाऽस्माकमेष भवानिव ॥५०॥ पितुश्च सचिवानां च गिरं श्रुत्वा महाबलः । पोवाच तातचरणा अप्रसादाः कथं मम? ॥ ५१ ।। अथोचे जगतीपालो मत्पुत्रोऽसि क्वेिक्यसि । मिरो निराक्रियन्ते मे किमज्ञेनेक तत् त्वया? ॥५२॥ ततः पितृगिरः श्रुत्वा महाबलकुमारराट् । देवादेशः प्रमाणं मे रात्रिस्वनोपदेशवत् ॥ ५३॥ असौ निवेशयामास कुमारं संमदोद्धरः। अभिषेकासने शक्रपर्य इव तीर्थपम् ॥ ५४॥ मङ्गल्याऽऽतोद्यमालासु वाद्यमानासु सर्वतः । कुमार: सिषिचे मूर्ध्नि भूभुजा तीर्थवारिभिः ॥५५॥ अथ भूमी जोऽन्येऽपि सौवर्णकलशैर्नृपम् । वमभ्यषिञ्चन् तीर्थेशविम्बमिव प्रतिष्ठितम् ॥ ५६ ॥ अथोदितं द्वितीयेन्दुमिव नम्रशिरोधराः । प्राणमन् नवमुर्वीशमखिला अपि नागराः॥ ५७ ॥ सदशानि मनोज्ञानि वासांसि श्रीबलाऽऽज्ञया । च्युतानीवेन्दुकिरणैः पर्यधाद् नूतनो नृपः ॥ ५८ ॥ चन्दनैश्चन्द्रकान्ताश्मस्त्यानबिन्दूदकैरिव । तस्याऽङ्गरागं सर्वाङ्गं विदधुर्वारयोषितः ॥ ५९ ।। भूषणभूषितस्तैस्तैर्मुक्तामाणिक्यसंभवैः । नवो राजा राजाऽसौ कल्पद्रुः पल्लवैरिव ॥ ६० ॥ माणिक्यभासुरं रेजे मुकुटं तस्य मूर्धनि । उदयाद्रितटे टीकमानं बिम्ब रवेरिव ॥ ६१ ॥ श्रीबलो धारयामास च्छत्रं मूर्ति निवेशितम् । क्षीरसागरडिण्डीरपिण्डैरिव विनिर्मितम् ॥ ६२ ॥ १ एवमित्यपि ।