________________
प्रथमः सर्गः ।
अलं मे पुत्रमित्रादिसुखैः क्षणविनश्वरैः । अलं मे संपदा कुम्भिकर्णतालविलोलया || ३७ ॥ अलं मे भववासेन पाशेनेवाऽन्तरात्मनः । ध्यात्वेति सुतमाहूय मन्त्रिणश्चाभ्यधादिदम् ॥ ३८ ॥ वयमत्रैव राजानो यूयमन्त्रयमन्त्रिणः । अतो राज्यधुराभारो मयि युष्मास्ववस्थितः ॥ ३९ ॥ भयेयं साधिता पृथ्वी भवद्भिः कृतसन्निधैः । सुत्रता सौरभेयी यत् तद् गोपालविशेषणम् ॥४०॥ यद् भवन्तो मयैश्वर्यात् खेदिताः शुभकर्मणि । यत्तु न्यायेतरं चक्रे भूमिपीठे मदान्ध्यतः ॥ ४१ ॥ चालिता जययात्रायै चलता ये निरागसः । उन्मूलिता महीपाला वात्ययेव महाद्रुमाः ॥ ४२ ॥ विधाय भस्मसाद् ग्रामान् यल्लोका निर्धनीकृताः । नश्यद्भीरुकरक्रोडाद् यच्च बाला वियोजिताः ॥ ४३ ॥ तदर्घ क्षालयिष्यामि मलक्लिन्नमिवाऽम्बरम् । गृहीत्वा प्रभुपादान्ते संयमं यमिनां मतम् ॥ ४४ ॥ सुते न्यस्यामि राज्यस्य जरसा जर्जरो भरम् । प्रदोषकाले पूषेव निजं तेजो हविर्भुजि ॥ ४५ ॥ अमुष्मिन् कवचहरे मयीव नृपसंसदि । वर्तितव्यं महाभागाः ! युष्माभिर्मम शिक्षया ॥ ४६ ॥ • अथेत्थं मन्त्रिणोऽप्यृचुः स्वामिन् ! जातो विरागवान् । अन्यथा कथमासन्नमोक्षस्येव वचस्तव ? ॥ ४७ ॥ यः श्रेयसि प्रवृत्तानां निषेधो मोहतो भवेत् । स शालीनूषरक्षेत्रेष्वारोपयति वप्रतः ॥ ४८ ॥ तवापि पूर्वजा राजन् ! वार्धके मुनिवृत्तयः । साम्प्रतं साम्प्रतं तत् ते कृतज्ञत्वं प्रसर्पति ॥ ४९ ॥
४३