________________
मल्लिनाथमहाकाव्येभरतेशादित्ययशःप्रभृतीनां महीभुजाम् । स्वपूर्वजानामाख्याभिः ख्याताःस प्रतिमा व्यधात् ९८ अमारिपूर्वकं भूरिदानसम्प्रीणितार्थि च । प्रतिष्ठां कारयामास चैत्योद्धारमकारयत् ।। ९९ ।। सम्यत्वं निर्मलं बिभ्रद् विदधानः प्रभावनाम् । कालक्रमेण शुद्धात्मा देवभूयमगादयम् ।। ५०० ॥ अथोवाच बलः स्वामिन् ! तद्दृष्टान्तश्रुतेर्मम । अमन्दानन्दकन्दल्याः प्रमोदः समपद्यत ॥ १ ॥ एकं सर्वरसस्यन्दि हरिश्चन्द्रनिदर्शनम् । परं यौष्माकनिःसीमवचोडम्बरगौरवम् ॥ २ ॥ केचिद् मृता अपि जनाश्चरित्रैश्चित्रकारिभिः । जीवन्त इव जायन्ते कीर्तिरेवाविनश्वरी ॥ ३ ततोऽयोध्यासमायातविद्याभृन्नियमोत्सवम् । विदधुर्जुम्भका देवाः प्राक्तनभवबान्धवाः ॥ ४ ॥ अथ राजाऽपि सूरीणां प्रणिपत्य पदद्वयीम् । धर्मकर्मप्रवीणात्मा जगाम सदनं निजम् ॥ ५ ॥ अन्येद्यर्धारिणी देवी सुखसुप्ता महासती । शान्तं कान्तं मृगाधीशं प्रविशन्तं मुखाम्बुजम् ॥६॥ विलोक्य निद्राविच्छेदे स्मृत्वाऽभीष्टं जिनेश्वरम् । स्थित्वा वेत्रासने चित्रे निशाशेषमवाहयत् ।। ७ ।। (युग्मम्) प्रभाते धारिणी देवी महास्वप्नं महीभुजः । अचीकथद् महोत्साहक्षीरवार्तीन्दुमण्डलम् ॥ ८ ॥ विचार्यासौ महास्वप्नमेतस्या न्यगदत् पुरः। प्रवीरो जगदुत्कृष्टो भविता तनयस्तव ॥ ९॥ . अथावर्द्धत धारिण्या गर्भो वाञ्छाद्रुमाम्बुदः । दानपूजादिकृत्येषु भावश्चास्य प्रभावतः ॥ १० ॥