________________
प्रथमः सर्गः।
ततोऽयोध्यापुरीसंस्थमात्मानं दृष्टवान् नृपः ।। सेवितं गुरुवच्छिष्यैर्वमुभूत्यादिसेवकैः ।। ८५ ॥ यावञ्च विस्मयस्मेरः किश्चिद् ध्यायति भूपतिः । तावत्तत्र क्षणात् माप्तस्त्रिदशस्तमवोचत ।। ८६ ॥ न वयं तापसा राजन् ! नैते निकृतिवश्चने । किं त्वस्माभिः कृतं सर्व तव सत्त्वपरीक्षणे ।। ८७ ॥ शक्रः स्वयं महीशक! चक्रे सत्त्वस्तुतिं तव । सभामण्डपमासीनो वाचा धीरपशान्तया ।। ८८ ॥ हरिश्चन्द्रो नृपः सत्त्वाद् न देवैरपि चाल्यते । आपनेऽपि निजप्राणसंशयेऽपि कदाचन ॥ ८९ ।। अश्रदेयं वचः श्रुत्वाऽस्माभिरीहग विचेष्टितम् । तत्क्षन्तव्यं, महात्मानो विनम्र हि कृपालवः ॥ ९ ॥ सत्त्वेन भवतस्तुल्यो नास्त्यन्यस्त्रिजगत्यपि । तमःस्तोमापहः कोऽपि किं सूर्यादतिरिच्यते ? ॥९१।। स्तुत्वेति जगतीनाथं नत्वा योजितपाणयः। दिवौकसो दिवं जग्मुस्तत्पशंसापरायणाः ॥ ९२ ॥ अन्येधुर्बहिरुद्याने गतः क्षोणीपतिः स्वयम् । तीर्थ शक्रावताराख्यं जीर्ण शीर्ण व्यलोकयत् ।।९३॥ वसुभूतिरुवाचाथ ज्ञात्वा चेतो महीभुजः। इङ्गिताकारतत्त्वज्ञा मन्त्रिणः सर्ववेदिनः ॥ ९४ ॥ वृषभस्वामिनो विम्बं भासुरं शक्रनिर्मितम् । इदं शक्रावताराख्यं महातीर्थ महीतले ॥ ९५॥ कालक्रमादिदं जीर्ण बभूव क्षितिनायक!। उदारकारिणो यस्मात् प्रभवन्ति भवाशाः ॥९६ ।। भवानप्यादिमजिनसन्ताने समजायत । कुरुष्वेदं नवं तीर्य देहिनं रसवेदिवत् ॥ ९७ ॥ .: