________________
मल्लिनाथमहाकाव्ये-- तेनासौ वार्यमाणोऽपि समीपे प्रत्युताभवत् । जजागाराश्रममुनिस्तत्रागाद्वायुवद् द्रुतम् ।। ७२ ॥ अरे ! किमेतदारब्धं गदतीति महामुनौ । भीता विद्याधरी कापि ननाश सपरिच्छदा॥ ७३ ॥ शाखाबद्धं नृपं दृष्ट्वा श्वसन्तं रुधिराविलम् ।
उपलक्ष्याथ कौटिल्यस्तमौषध्याऽकरोन्भवम् ।। ७४ ।। इतश्च-अरे ! क त्वं गतोसीति शब्दितः श्वपचेन सः ।
उपसृत्य श्मशानान्तं शुश्राव करुणध्वनिम् ॥ ७५ ॥ हा पुत्र ! क गतोऽसीति मूच्र्छन्ती हरिणीदृशम् । विलोक्य भूपतिः प्राह कस्माते नन्दनो मृतः ॥७६॥ साऽब्रवीद्देव ! पत्न्यस्मि हरिश्चन्द्रमहीभुजः। रोहिताश्वाभिधानोऽयं नन्दनो नेत्रनन्दनः ।। ७७॥ मम निःक्षीणभाग्याया दष्टः फणभृता सुतः । अकृतोपकृतिर्दैवात् सम्पाप्त ईदृशीं दशाम् ।। ७८ ॥ हरिश्चन्द्रो रुरोदाशु धैर्य कस्य सुतव्यये । आश्लिक्षद् नितरां पुत्रं चुम्बति स्म च मूर्द्धनि ॥७९॥ रुष्टोऽसि वारितो वाऽसि किं नु यच्छसि नोत्तरम् ? । न मां प्रत्यभिजानासि चिरकालसमागमात् ।। ८०॥ इतश्च श्वपचः प्राह किमारेभेऽनया समम् । आनयाभकवासांसि स्वाचारे को विलम्बते १ ॥८१॥ इति चण्डालवाक्यानि दुःश्रवाणि निशम्य सः। भूत्वा पराङ्मुखोऽशक्तो याचितुं स्फुटया गिरा ॥२॥ आदित्सयाऽऽच्छादनस्य विच्छायवदनद्युतिः । करं प्रसारयामास हरिश्चन्द्रो, हहा ! विधिः ॥ ८३ ।। इतश्च विदधुः पुष्पवृष्टिं पीयूषभोजिनः । महो! सत्त्वमहो! सत्वमिति व्याहारचारवः ॥ ८४ ॥