________________
- प्रथमः सर्गः। --
३७
ऊचे च सुतनो! किं ते परिदेवनकारणम् । सोचे गत्वा पुरः पश्य न्यग्रोधं, स तथाऽकरोत् ।।५९।। ऊर्ध्वपादमधोवकं वटशाखावलम्बिनम् । नरमेकं निरैक्षिष्ट सर्वलक्षणलक्षितम् ॥ ६० ॥ तन्निरीक्ष्य नृपो दध्यौ प्रादायि मुनये मही । मुनिकन्याधनोपाये विक्रीते सुतवल्लभे ॥ ६१ ॥ जीवितस्यापि निर्विण्णो म्रियेऽहं यदि साम्प्रतम् । परमाणपरित्राणकारणाद्भावि मे शुभम् ।। ६२ ।। विचिन्त्येति नृपः प्राह कस्त्वं कस्यासि नन्दनः ।
अवस्था कथमीक्षा, बद्धः किं वटपादपे ? ॥ ६३ ।। : सोऽब्रवीद्देव ! काशीशचन्द्रशेखरनन्दनः ।। विद्याधर्याऽस्मि पल्ल्यङ्कात् समानीतोऽत्र सप्रियः॥६४॥ मांसेन मे महाहोम सा करिष्यति निश्चितम् । इतस्तरङ्गिणीतीरं गताऽस्ति स्नानहेतवे ।। ६५ ॥ तमुवाच हरिश्चन्द्रो गच्छ त्वं शाधि मेदिनीम् । यत्कार्य तत् करिष्येऽहं विद्याधर्याः स्वमांसतः ॥६६॥ प्रत्याह चन्द्रसूर्नेदं समीचीनत्वमञ्चति । खरस्यायुःक्षये कापि म्रियेत रजकः कथम् ? ॥६७।। पुनः प्रोवाच भूपो मे प्रार्थनां मा कृथा वृथा। इत्युत्का स्थान एतस्य स्खं बबन्ध तरोरधः ॥ ६८ ॥ सकलत्रः स वेगेन प्रययौ चन्द्रनन्दनः। । अथागाल्ललना व्योम्नि दधाना साऽऽर्द्रचीवरम् ।।६९।। उत्क्षिप्योत्क्षिप्य भूमीशो निजमांसं समार्पयत् । विद्यासिद्धिनिमित्तं सा चिक्षेपाग्नौ यथाविधि ।।७० ॥ इतो गोमायुफेत्कारः कुण्डकं परितोऽभवत् । आदिशत् खेचरं साऽथ विखिन्ना तस्य रक्षणे ॥७१ ॥