________________
मल्लिनाथमहाकाव्येअरे निषादभृतक ! हरिश्चन्द्रोऽसि सत्यतः। इयं ते गृहिणी सम्यगित्यपृच्छद् महीपतिः ॥ ४६ ॥ नाहं राजन् ! हरिश्चन्द्रो नेयं प्राणप्रिया मम । तिर्यग्योनित्वतः किश्चिच्छुको वक्ति यथा तथा ॥४७॥ शुकं प्रत्याह राजाऽथ किमस्मान् वश्चयस्यरे ! ?। तस्मादियमिव त्वं रे! वध्यो वन्ध्यगिरो गिरन् ॥४८॥ शुकोऽप्यूचे च्युता राज्यादरिवेश्मविहारिणः । नात्मानं हि प्रकाशन्ते सहन्ते विपदां पदम् ।। ४९ ॥ तस्यादेशाद् हरिश्चन्द्रः खरे तामध्यरोपयत् । अभीष्टार्थेऽपि किं कुर्यात् परायत्तो विचक्षणः ? ॥५०।। सुतारैषा हरिश्चन्द्रो यदुभौ स्तो न भूपते ! । दह्याद्देहं ममार्चिष्मान् सत्यं चेदस्तु वारिवत् ॥ ५१ ॥ प्रतिज्ञामिति कृत्वाऽय मन्त्रिणा रचितां चिताम् । झम्पां दत्त्वा शुकोऽविक्षदक्षताङ्गो विनिर्ययौ ॥ ५२ ॥ मन्त्र्यूचे देव ! मन्येऽहं किञ्चिन्मान्त्रिकवैशसम् । आकृत्या सुन्दराकारा सम्भाव्या राक्षसी कथम् ॥५३॥ इत्युक्ते तेन भूमीशो रासभादुदतारयत् । किं कुर्मः, कर्म केनापि निर्मितं मर्मवेधकम् ? ॥५४॥ इति कोपानुतापाभ्यां संपृक्तः काश्यपीपतिः। मान्त्रिकं व्यसृजत् कीरं पञ्जरेऽपि व्यधापयत् ॥५५ ।। हरिश्चन्द्रोऽपि चण्डालनिदेशादिवसात्यये । श्मशानं रक्षितुमसावाययौ सात्त्विकाग्रणीः ॥५६॥ कचिद्रक्षोगणाकीर्ण कचिद्योगीन्द्रसेवितम् । कचित्फेरण्डफेत्कारं कचिद्भूतविभीषणम् ।। ५७॥ कचिद्विभीषिकाभीष्मं श्मशानं स परिभ्रमन् । रुदती सुदती काश्चिद् हरिश्चन्द्रो व्यलोकयत्.॥ ५८ ॥