________________
३५
प्रथमः सर्गः 1 चतुर्भिः कलापकम् ।। नृपादेशादसौ प्राप्तो ज्ञातवृत्तो महीपतेः । दधानो ध्यानमाचख्यौ राक्षसीललितं स्विदम् ॥ ३३ ॥ इतो वेश्याsse सोल्लासं पुत्रिका मग मान्त्रिक ! | मृता मारिप्रयोगेण विनाऽऽधिव्याधिगौरवम् ॥ ३४ ॥ अवादीद् मन्त्रवादी च मन्त्रात् प्राणिति ते सुता । इतोऽभ्येत्यागदच्चेटी स्वामिनी मम जीवति ।। ३५ ।। सत्यप्रत्यायितक्ष्मापसमादेशेन मान्त्रिकः । लिखित्वा मण्डलं हांहींमन्त्रविन्याससुन्दरम् ॥ ३६ ॥ क्षामकुक्षिललनेत्रां चण्डीं मूर्त्तिमतीमिव । आनयद्राक्षसी भीमां स्फारस्फेत्कारकारिणीम् ।। ३७ ( युग्मम् ) सविस्मयं नृपो दध्यौ महामन्त्रविजृम्भितम् ।
य एनां राक्षसीं मन्त्रिमानैषीत् पश्यतां हि नः ॥ ३८ ॥ मान्त्रिकः माह यत् कार्य्यं तत् कृतं तव सन्निधौ । भाकार्यतां ततो वेगान्निषादोऽस्य वधाय सः ४३९ ॥ अथास्माभ्येति चाण्डालो हरिश्चन्द्रसमन्वितः । अयोध्येशं ततो दृष्ट्वा शुकोवादीद् द्विजादिवत् ॥४०॥ स्वस्ति तुभ्यं हरिश्चन्द्र ! भरतान्वयभूषण ! | सत्त्वमानवतां धुर्य ! शौर्यचर्यातरङ्गित ! ॥ ४१ ॥ साक्षेपमथ राजोचे भाषसे किं प्रमत्तवत् ? । नात्र कोsपि हरिश्चन्द्रो मुधा भ्रान्तोऽसि रे शुक ! | ४२ ( युग्मम् ) सुतारां राक्षसीं वीक्ष्य हरिश्चन्द्रो व्यचिन्तयत् । कस्यचिद्दम्भिनो वृत्तं नेदं देवीविजृम्भितम् ॥ ४३ ॥ किं तु मत्कर्मघोस्त्वं प्रसरत्यनिवारितम् । यत्करिष्यति दैवं तन्मया सर्व सहिष्यते ॥ ४४ ॥ उशीनरमहीपालपुत्रि ! पावित्र्यदर्शने ! ।
सुतारे 1 ते नमः कीरः समथाममदोऽवदत् ।। ४५ ।।