________________
मल्लिनाथमहाकाव्ये
इतो वाराणसीपुर्यामशिवं समभूत् महद् । निलीयास्थादिव कॉपि येनोचैर्मङ्गलथ्वनिः॥ २० ॥ अथाहास्त महीचन्द्रोऽतन्द्रधीश्चन्द्रशेखरः। मन्त्रिणं सत्यवस्वाख्यं प्रतिरूपमिवात्मनः ॥ २१ ॥ राजादेशात् समायातुर्मन्त्रिणः कोऽपि पूरुषः । अन्तरा मिलितः पाणौ बिभ्राणः कीरपञ्जरम् ॥२२॥ कलहंस ! क कीरोऽयं सम्पाप्तो मन्त्रिणोदिते ? । सोऽप्यूचे चम्पोपवनस्थितमेनमवाप्नुवम् ॥ २३ ॥ इति तद्वचनं श्रुत्वा सार्दै तेनैव मन्त्रिराट् । भागादुपमहीपालं यथास्थानमुपाविशत् ॥ २४ ॥ मन्त्रिन् ! पश्य पुरीलोको चिना व्याधिविडम्बनाम् । अकालेऽस्तं प्रयात्येव स्वस्वधर्मरतोऽन्वहम् ॥ २५ ॥ इतश्च कुट्टिनी काचिद् रुदती करुणस्वरैः । हा! दैव! दैव ! मुष्टाऽहं भाषमाणा सदस्यगात् ॥२६॥ मत्पुत्री नामतोऽनङ्गमञ्जरी मञ्जुलस्वरा । रोगयोगं विना सुप्ता मृताऽस्तीति विचिन्त्यताम् ॥२७॥ नगर्या जगतीनाथ ! विद्यते मारिरुत्थितः । तच्छोधय तदुत्पत्तिं सत्यार्थो नान्यथा नृपः ॥ २८ ।। मन्त्र्यूचे देव ! मार्यर्थे प्रष्टव्यो मान्त्रिकोत्तमः । आयातः स स्वयं पुर्या उज्जयिन्या निशम्यते॥२९ ।। अतीतानागतज्ञानाकालपुष्पोपदर्शनैः । वस्त्राकृष्टिकुटभ्रान्तिमुद्गलादिनियन्त्रणैः ॥ ३० ॥ दृष्टिमुष्टिशराकाशबन्धदृश्यादिशक्तिभिः । स्वमोपदेशशकुनप्रतिपात्रावतारणैः ॥ ३१ ॥ मन्त्रादाकृष्टदेवेशो मन्त्रात् यन्त्रितभास्करः । मन्त्रावर्तितशेषाहिर्मन्त्रात् स्तम्भितपाक्कः ॥ ३२॥