________________
प्रथमः सर्ग: ।
राजोचेऽङ्गारव ! त्वं किं ब्रूषेऽनुचितं वचः १ । इक्ष्वाकवोsपि किं भिक्षामर्थयन्ति कदाचन १ ॥ ७ ॥ ऋषिरूचे पुरोऽस्माकं महत्त्वं स्वस्य जल्पसि १ । प्रतिज्ञाभ्रष्ट ! वाचाट ! किमात्मानं विकत्थसे १ ॥ ८ ॥ सुनीश ! मा कुपस्तुभ्यं लभ्यं दास्यामि काञ्चनम् । निषादस्यापि कर्माणि विधास्यामि गतत्रपः ।। ९ ॥ ततः कौपीनवसनः कालः काल इवापरः । सविषादमतेरस्य निषादः पुरतोऽभवत् ।। १० ।। भूपालं वीक्ष्य स प्रोचे रे ! त्वं कर्म करिष्यसि १ । तेनेत्युक्ते महीनाथो निदध्याविति चेतसि ॥। ११ ॥ क्रीडां कृत्वा नभःक्रोडे ययावस्तं गभस्तिमान् । न कश्चित् क्रायकोऽस्माकं मुनिः स्वर्णसमुत्सुकः ॥ १२ ॥ करिष्ये कर्म तेऽवश्यं राज्ञेत्युक्तेऽथ सोऽवदत् । कर्त्तासि किमु मे कर्म १, स ऊचे यन्निदेक्ष्यति ॥ १३ ॥ कालदण्डाभिधानोऽहं निषादः कोपकाननम् । गङ्गासव्यश्मशानेशो द्वितीय इव दण्डभृत् ॥ १४ ॥ रक्षितव्यं श्मशानं मे ग्रहीतव्यं मृताम्बरम् । किञ्चिद्दग्धानि काष्ठानि ग्राह्याणि चितितस्त्वया ॥ १५ ॥ यत्तत्रोत्पद्यते तस्य गृह्णात्यर्द्ध महीश्वरः । अन्यस्यार्द्धस्य भागौ द्वौ मामकस्तावकोऽपरः ॥ १६ ॥ इत्युक्ते तेन भूपाल आमेति न्यगदद्वचः । परं महर्षये देहि निःशेषं मम काश्चनम् ॥ १७ ॥ अथ दध्यौ मुनिः स्वान्ते नमस्ते सन्वशालिने । नमस्ते धैर्यपात्राय नमस्ते करुणात्मने ॥ १८ ॥ कालदण्डोऽपि तावत्तद् दत्त्वा स्वर्ण महर्षये । श्मशानमात्मनः प्राप- हरिश्चन्द्रसमन्वितः ।। १९ ॥
३३