________________
मल्लिनाथमहाकाव्येअत्यजत्यश्चले तस्मिन् बोधितेऽपि सुतास्या। । किं किङ्कार! विलम्बोऽयमित्यऋध्यत्तरां द्विजः ।।९४॥ यान्ती मुतारां स्नेहेन यावन्मुश्चति नार्भकः । सावत्तेन पदाग्राभ्यां निहत्य भुवि पातितः ॥ ९५ ॥ सासं विलोक्य भूपालो लुठन्तं भुवि नन्दनम् । मुमूर्छ लब्धसंज्ञोऽसौ चिन्तयामास चेतसि ॥ ९६ ॥ इन्द्रस्याप्यङ्कलाल्योऽयं रक्षितोऽप्यङ्गरक्षकैः। उपयाचितसंप्राप्तः कृतोत्तारणमङ्गलः ॥ ९७॥ .. अनेकदेवताशेषाशेखरोत्तममस्तकः। .. : अयं विप्रेण पादेन पात्यते रहवझुवि ॥१८॥ (युग्मम्) अयोवाच द्विजं राजा नायं तिष्ठेदिमां विना । एषोऽपि हि भवद्गुहेकर्म किश्चित्करिष्यति ॥ ९९ ॥
रोषाद्वभाषे विमोऽस्याः कर्मविघ्नकरं शिशुम् । .न गृह्णामि मुधाऽप्येनं किं पुनः स्वर्णदानतः ॥४००। । सबाष्पं पट्टदेव्यूचे तात! पुत्रं विना मम । ..
भविता हृदयं द्वेधा पकेवारुफलं यथा ।। १॥ मम प्रसादमाधाय गृहाणमं महाग्रहात् । अर्थिनां प्रार्थना सन्तो नान्यथा कुर्वते यतः ॥ २ ॥ श्रुत्वेदं ब्राह्मणो दत्त्वा सहस्रं काश्चनस्य च । ताभ्यां सार्द्धमगाद्धाम ब्राह्मणो हर्षपूरितः ।। ३ । दुःखधार्यमिदं वित्त यद्यागच्छत्यसौ मुनिः । समीचीनं, तदाऽऽयासीञ्चिन्तितोपनतोऽथ सः ।। ४ ।। सशिष्यमागतं वीक्ष्य तमृर्षि स्माह भूपतिः । : ऋषे! गृहाण हेमेंदं खेदं मनसि मा कृथाः ॥५॥ क्रोधान्धः स मुनिः प्राह ग्रहीयेऽल्पं न काश्चनम् । । अथोचेङ्गारवक्त्रोऽमुं चन्द्रशेखरमर्थय ॥ ६ ॥