________________
- प्रथमः सर्गः। देव्या तथाकृते राजा स्वकरेण निजक्रमात् । दर्भाङ्करान्समाकर्षदय कीलकसन्निभान् ॥ ५५ ॥ कुर्वती पादरुधिरैरिन्द्रगोपाङ्किता धराम् । मन्दमन्दरवा देवी न्यग्मुखी रोदिति स्म सा ॥ ५६ ॥ रोहिताश्व उवाचेदं यदा पद्भयां महीमहम् । अचलं तात! मैं पादौ विद्धा दारुणकण्टकैः ।। ५७ ॥ राजा सकरुणं पाह कतरस्ते सुत! क्रमः । विद्धो यस्मादयःशल्यकल्पं कण्टकमाहरें ॥ ५८ ॥ कण्टकं कण्टकेनैव तत्क्रमाभ्यां हरत्यसौ । अग्निरेवानिदग्धस्य भैषजं हि निशम्यते ॥ ५९॥ रोहिताश्वस्ततः प्राह तात ! तात ! क्षुधार्दितः। अथोचे पूर्ववद्राजा देहि पुत्राय मोदकम् ॥ ६० ॥ देवी सुतारा श्रुत्वेदमन्ताहकरं वचः । " . किमिदं भाषसे स्वामिन् ! स्वमदृष्टसमं हहा? ॥ ६१ ॥ रोहिताश्वः पुनःप्रोचे मातरस्मि क्षुधार्दितः। तारस्वरं रुरोदासौ बलं नाम्यद् मृगीदृशाम् ॥ ६२ ।। सर्वलक्षणपूर्णस्य भरतान्वयजन्मिनः। अवस्था केयमायाता हन्त ! रोरशिशोरिव १ ॥ ६३ ॥ निदध्यौ भूपतिः सास्र केयं कालस्थितिर्मम । यदस्य गर्भरूपस्य कल्यवर्तेऽप्यशक्तिता ॥ ६४ ॥ आस्तां विनोदयाम्येनं विनोदैः कौतुकप्रियम् । ' पश्यैतां स्वर्धनी पुत्र! कलहंससमाकुलाम् ॥ ६५ ॥ इति विप्लावयत्यस्मिन् रोहिताश्व कुतूहलैः।" अकस्मादाययौ कोऽपि सपाथेया कुटुम्बिनी ॥ ६६ ॥ पृच्छन्ती नगरीमार्ग भूपयेषा व्यचारयत् । नृपलक्षणभाजोस्याऽवस्थेयं कथमीशी? ॥६७ ॥