________________
_ मरिकनाथमहाकाब्बेकुतस्त्योऽसि कुतधामास्तयेति व्याहते सति । अनाकपेव तद्वाक्यं मौन्यभूमिनायकः ॥ ६८॥ अयाचितं स्वपाथेयं वृद्धादात् नृपसूनवे । अयाचितं दीयते यत्तदानं श्रेयसे खलु ॥ ६९ । गतस्वेदाऽसि चेद्देवि ! तदोत्तिष्ठ पुरी प्रति । अथाने गौरिव पथा प्रवृत्ता साऽवदद् नृपम् ।। ७० ॥ राज्यलक्ष्मीपरिभ्रंशाल्लज्जते न किमु प्रियः । वैरिपुर्या कथमस्यामार्यपुत्रः प्रवेक्ष्यति ॥ ७१ ॥ सावष्टम्भं वभाषेऽथ का लज्जा सत्त्वशालिनाम् । आपदः सम्पदायन्ते प्रतिज्ञावार्थकारिणाम् ॥७२॥ प्रभवद् नार्यते केन कृतं कर्म शुभाशुभम् । तन्माहात्म्याशामा योषा किं परे द्विषः ॥७३॥ प्रचचाल ततः क्षमापः पुरीं वाराणसी प्रति । इतो देव्यवददेव ! समासनोऽवधिMने ।। ७४ ।। मां विक्रीय गृहाणाशु काननं किशनाचना । अय पुत्रोऽनवीतात ! विक्रेयोऽहं नहि खासा ॥ ७५॥ मातरिय तातं मे विक्रीणन्तं चतुष्पथे । . रुदत्याह सुताराऽयं वत्स! भूपो भविष्यसि ॥७६।। मा रोदीर्भद्र ! मारोदीस्त्वां विक्रेता न कश्चन । मत्समीपे निषीदाशुतुभ्यं दास्यामि मोदकम् ।।७७॥ सा निदध्यौ हहा ! दैवं भवे भवशतानि मे। :. शैलूष इव रूपाणि प्रपश्चयति नाटके ।। ७८ ॥ विक्रेतुमथ रथ्यायां गतोऽसौ सपरिच्छदः । व्यसनं सत्त्वहेम्नो हि कषपट्टो निगद्यते ॥ ७९ ॥ चित्तेऽवधार्य भूमीशस्तृणान्याधाय मस्तके । पुत्रस्य स्वकलत्रस्य तस्थौ साश्रुविलोचनः ॥ ८ ॥