________________
२८
मल्लिनाथमहाकाव्य
परायताः कचिन्न स्युललनाः पत्तिदेवताः। इतिस्मृतिस्मृतौ मूर्ख ! कथं तापसपशिनः ? ॥ ४२ ॥ वसुभूतिस्ततस्तेन शपित्वा कीरकीकृतः । वचो हि बन्धनायैव निष्पस्तावमुदीरितम् । ४३ ।। रण्डे ! संत्यज नेपथ्यं याहीति मुनिनोदिते ।। सुतारा मुमुचे सघः किरीटादि शरीरतः ।। ४४ ॥ मुनीन्द्राविधवामात्रचिह्न में मुञ्च किश्चन । श्रुत्वेदं सपरीहासमवदनिष्ठुरो मुनिः ॥ ४५ ॥ चण्डि ! वैशिक एवास्ति दुर्भगाया विभूषणम् । सवाष्पं साततः सर्व नेपथ्यं तत्पुरोऽमुचत् ।। ४६ ।। ततः पुत्रकलत्राभ्यां धारेत्रीधवपुङ्गवः । अरण्यान्या इव स्वस्या नगर्या निर्ययौ तदा ॥ ४७॥ अनुरागाल्लुठद्वाष्पमनुयान्तं पुरीजनम् । अभाषिष्टेति भूपालः प्रीतिपेशलया गिरा ॥ ४८ ॥ चिरं परिचयात् क्रोधादज्ञानाद्वा प्रलोभतः। राज्यश्रीप्रणयोन्मादादपराद्धा यतस्ततः ॥ ४९ ॥ तत्तत् क्षाम्यन्तु मे सर्व यद्यदागो मया कृतम् । श्रुत्वेदमरुदन् पौरा मृतप्रियजना इव ॥ ५० ॥ स्मरन्तः स्वामिनः कामं गुणानेणाङ्कनिमेलान् । नगरी नागरा जग्मुर्देहेन मनसा नहि ॥ ५१ ॥ किश्चिन्मार्गमतिकान्ता परिश्रान्ता सुलोचना । कियदद्यापि गन्तव्यमित्यपृच्छद् महीपतिम् ।। ५२॥ उवाच क्ष्मापतिर्देवि ! किं ताम्यसि न पश्यसि ।। इमां वाराणसी श्रान्तनेत्रपान्थप्रपाप्रभाम् ॥ ५३॥ वहन्ती नन्दनं देवि ! यदि खिन्नाऽसि दूरतः। . अनुगामिमं चारु चम्पकं द्रुममाश्रय ।। ५४ ॥
.