________________
प्रथमः सर्गः ।
"
कुन्तलो जम्बुको भूत्वा शब्दं कुर्बन बहिर्यया । hi महर्षे ! मा कार्षार्नत्वेदमवदन्नृपः ।। २९ ।। मुनिना विहितं दूरे पादेनाहत्य भूपतिम् । विलोक्य रोहिताश्वोऽथ रुरोद करुणस्वरैः ॥ ३० ॥ मां गृहाण सुने ! तातं मा मा ताडय निर्दयम् । इति श्रुत्वा शिशोर्वाक्यमृषिस्तुष्टो मनस्यभूत् ॥ ३१ ॥ क्रोधोत्तालं मुनिः प्राह सुतारां प्रति निर्घृणः । रे! त्वया शिक्षितो बालो जानाति कथमीदृशम् १ ॥ ३२ ॥ हरिश्चन्द्रोऽभ्यषादित्यं महर्षे ! ब्रह्मसेवधे ! | मासमेकं प्रतीक्षस्व तुभ्यं दास्यामि काञ्चनम् ॥ ३३ ॥ स मुनिः माह किं भिक्षां याचित्वाऽथ नृपोऽवदत् । ऐक्ष्वाकवोsपि किं भिक्षां याचन्ते मानिनो ननु ? ३४ ॥ कुतस्तति तेनोक्ते भूपः माह कृतस्मितः । कृत्वा स्वं परदास्येऽपि तुभ्यं दास्ये यथोचितम् ||३५|| भवत्वेवं महीपाल ! मम मुञ्च वसुन्धराम् । नैक्ष्वाकवस्त्यजन्त्येव सन्धां प्राणायादपि ॥ ३६ ॥ विमृश्योचे नृपः सुभु ! गच्छान्तः पुरमञ्जसा । नायं सोढ़ा शिशुर्मार्गखेदं मृदुशरीरकः ।। ३७ ।। सावष्टम्भं सुतारोचे यद्भाव्यं तद्भविष्यति । आयास्यामि त्वया साकं छायेवातुहिन शुना ॥ ३८ ॥ क यातासि सुतारे ! त्वं मुनिना समुदीरितम् । । साऽभ्वधादार्यपुत्रेण गन्ता, पत्यनुगाः स्त्रियः ॥ ३९ ॥ ममाधीतां हरिश्चन्द्र श्रेष्यति तदद्भुतम् । पारीन्द्रवक्त्रगामेण किं गृह्णन्ति मदद्विपाः १ ॥ ४० ॥ वसुभूतिरुवाचेदं प्रज्वलन क्रोधवहिना ।
अरे ! तापस! तो वेत्सि लोकमार्ग पुलिन्दवत् ॥ ४१ ॥
२७