________________
२६
मल्लिनाथमहाकाव्ये
ऊचेङ्गारमुखः कोपादिप्लावयसि किं मुनिम् । .: नाय हास्यपदे मूढ ! पत्रीभ्रातेव ते गुरुः ॥ १६ ॥ इत्याकर्ण्य वचः कर्णद्वयतप्तत्रपुप्रभम् । घसुभूतिरुवाचेदं मा वादीरिति राजनि ॥ १७ ॥ राजंस्त्वमेकमेवैनं वाचालं वारयाऽन्यथा। एतस्य प्रकटं शिक्षा कस्मिीत्यवदन्मुनिः ॥ १८ ॥ कुन्तलो बसुभूतिश्च पोचतुर्दावपि स्फुटम् । यावद्ददाति ते स्वर्ण तावदावा गृहाण मोः। ॥ १९ ॥ अरे ! जीर्णविरालाभ्यां मवद्भया कि प्रयोजनम् । इत्युक्तवति सत्यस्मिन् राजा कुन्तलमादिशत् ॥२०॥ सहितां रोहिताशेन देवीमाकारय द्रुतम् । विक्रयाय सवत्सां गामिवावक्रयवमनि ॥ २१॥ .. प्रतिपद्येदृशं दुःखी कुन्तलः श्लशकुन्तलः।। तामादाय समायातः सपुत्रां नृपपर्षदि ॥ २२ ॥ मुनिमानम्य राजाऽऽह गृहाणाभरणादिकम् । तपस्व्युवाच ते केयं दक्षता दानकर्मणि ॥ २३ ॥ नेपथ्यं मामकीनं यन्ममैव तद्वितीर्यते । स्वसुः पुष्पाणि अध्यन्ते स्वसुरेव हि सत्यगीः ॥२४॥ अथाङ्गारमुखोऽवादीत् स्वामिनिमां न वेत्सि किम् । कपटाम्भोधिचन्द्रस्य हरिश्चन्द्रस्य वल्लभाम् ॥ २५ ॥ अथोचे कुन्तलः कोपादाबद्धभृकुटीत्रयः । अरे! पतिव्रतां कान्तां वेत्सि नो सत्वशालिनः ॥२६॥ मुनिवेषधरा यूयं प्रत्यक्षा राक्षसा इव । मद्यमत्ता इवोन्मत्ता वाचाला बालका इव ॥ २७ ॥ ततः कुलपतिः कोपात्कमण्डलुजलेन तम् । आच्छोट्य कुन्तलं चक्रे जम्बुकं क्षणमात्रतः ॥ २८ ॥