________________
षष्ठः काण्डः। अा-नुपूर्व्य-भिमुखाः शब्दा योज्याः, दिवोऽचि च । पृषोदरादित्वाद् दिवो घुश्वाऽऽदेशः, यदुच्यते ॥५७॥ दिवः स्थाने दिवोऽचि स्याद् दिव् च दीर्घ पुनः परे। उकारोकारयोरुच्च पश्चातोऽर्धादिके तलुक् ॥५८॥ मध्यजाते मध्यमीयं मध्यमं माध्यमं तथा। मध्यन्दिनं माध्यन्दिनं मध्येऽभ्यन्तरमन्तरम् ॥५९॥ अन्तरालम् , समं तुल्ये समानं सदृशं सदृक् । सदृक्षमनुहारे तूपान्मान-मिति-मा-मताः ॥६॥ औपम्यमुपमामुक्तेऽनुपमं स्यादनोपमम् । कथ्यते त्वरी प्रतिमा प्रतिमानमयोमयी ॥ ६१॥ शूर्मिः शूर्मी च तालव्यदन्त्यादी शूर्म इत्यपि । वामे वि-प्रतितो लोममपष्ठूरमपष्ठुरम् ॥ ६२ ॥ प्रसव्यमपसव्यं चोच्छृङ्खले तु निरर्गलम् । अनर्गले भिन्ने त्वन्यदन्यतरदपीतरत् ॥ ६३ ॥ मिश्रे करम्बः कबरम् , तूर्णे त्वरित-सत्त्वरे ।
१ दिवशब्दस्य अचि सर्वस्मिन् स्वरे परे पृषोदरादिसामर्थ्याददन्तो दिवः, उदन्तो घुश्चादेशः स्यात् । एतदेव चाऽग्रेतनेन गणरत्नमहोदधिस्थेन समासगणाध्यायान्तर्गामिनकोनसार्धशतसंख्येन श्लोकेन प्रमाणयति ।
२ दिवशब्दस्थाने स्वरे परे दिव आदेशः स्यात् , तस्यैव दीर्घ च स्वरे परे दिव् दिवश्चादेशौ स्याताम्, जकारोकारयोः परयोर्दिवो वस्य उकारोऽपि स्यात् ,-दिवाधीशः, दिवीधरः, दिवेश्वरः, यूहा, दिवूहा, दिवोहेत्यादि।
३ पश्चात्-शब्दस्य अर्धादिशब्दत्रये परे तो लुक् स्यात्, पश्चार्धम् ,-पश्चानुपूर्वी, पश्चाभिमुखमिति । ४ उपशब्दाद् मादिशब्दत्रययोगः, उपमानम् , उपमितिः, उपमेति। ५ वि-प्रतिभ्यां परं लोमम् , विलोममित्यादि ।