________________
शब्दरत्नाकरे
संपातपाटवे झम्पा झम्पोऽजस्रं तु संततम् ॥ ६४॥ सततं चानवरता-ऽविरते स्यादनारतम् । सङ्कले वाकुलं कर्णि समाङ्भ्यां कीर्णमित्यपि ॥६५॥ भरिते प्राणं पूर्ण च पूर्त पूरितं छादितम् । छन्नम् , त्यक्ते विधुतवद्धृतम्, विन्नं विचारिते ॥६६॥ वित्तं च, पिहिते छन्नं छादितं संवृताऽऽ-वृते । अपवारित-संवीते पिधाने व्यवधानवत् ॥ ६७ ॥ व्यवधाऽन्तढिरन्तर्दा, नाऽऽहते मैत-मानिते । अवादवज्ञायां हेलाऽवहेलमवहेलया ॥ ६८ ॥ असुक्षणमसुङ्क्षणमसूक्षणमसूक्षणम् । कम्पिते तु धुतं धूतं प्रेडोलितं च प्रेजितम् ॥६९॥ अन्दोलने भवेद् दोला प्रेङ्खा प्रेङ्खोलनं समे। दोलके मता दोलेरिते निष्ठ्यूतमातंठम् ॥७॥ नुन्न-नुत्ते, मुषिते तु मूषितम् , गुणिते पुनः । आहताऽ-नाहते मृषार्थके ताडितकेऽपि च ॥ ७१ ॥ तेजिते निशातं शातं निशितं शितमित्यपि । वृते तु वृत्त-वावृत्ते, हीतं हीणं च लजिते ॥७२॥ दग्धे तु पुष्टं प्लुष्टं च, तष्टं वष्टं तनूकृते । छिद्रिते वेधितं विद्धम्, विलीने विद्रुतं द्रुतम् ॥७३॥ तन्तुसन्तते स्यूतो-ते ऊतं स्यूनं च स्योनवत् । १ संकीर्णम् , आकीर्णमिति । २ अवमतम् , अवमानितं च । ३ ठकारसहितमित्यर्थः ।