________________
९०
शब्दरत्नाकरे
परुत्तनं परुन्त्तमं परुत्नं च परारिजे ॥४८॥ परानं परारिन्तनं परारितनमित्यपि । पार्श्वे तालव्यदन्त्यान्तमभ्यासं सन्निधानवत् ॥ ४९ ॥ सन्निधिरन्तिकतमे नेदीयो नेदिष्ठं स - ठम् । अतिदूरे दवीयः स-ठं दविष्ठमनश्वरे ॥ ५० ॥ सनातनं सदातनं शाश्वतिकं च शाश्वतम् । अतिस्थिरे स्थेयं स्थास्नु स-ठं स्थेष्ठं च जङ्गमे ॥ ५१ ॥ चरं चराचरं तद्वच्चरिष्णुवदिहाऽस्थिरे ।
"
परिप्लवं पारिप्लवं चञ्चलं च चलाचलम् ॥५२॥ चलं चपलं चटुलं कमनं कम्प्रमप्यथ । अधोमुखेऽवनतं स्यादानतम् कुटिले पुनः ॥५३॥ वक्रं वङ्कं च वक्रिश्वानुगे चान्वगन्वक्षवत् । असहाये चैकाक्येक एककोऽनन्यवृत्तिके ॥ ५४ ॥ एकात्सर्गा-ऽयन- ताना-ऽग्राण्ययनगतं तथा । एकाग्रम्, पूर्वे वाद्याऽऽदी आदिमं प्रग्रमग्रवत् ॥५५॥ चरमेऽन्त्यमन्तिमा - ऽन्तावन्तमं पश्चिमान्वितम् । अपश्चिमं खरूपे नञ् पाश्चात्यं पैश्च - पश्चिमात् ॥५६॥
१ एकशब्दात् सर्गा-यन-ताना ग्राऽयनगतशब्दाः संबन्धनीयाः, एकसर्गः, एकायनः, एकतानः, एकाग्रः, एकायनगत इति ।
२ स्वरूपार्थद्योतको नञ्, न तु निषेधद्योतीति ज्ञेयम् ।
३ पश्च- पश्चिमशब्दाभ्यामर्धा ऽनुपूर्व्य-भिमुखशब्दा योज्याः, पश्चार्धम्, पश्चा पूर्वी, पश्चाभिमुखम् ; पश्चिमार्धमित्यादि ।