________________
षष्ठः काण्ड: 1
"
म्लानं मलीमसे प्रोक्तं मलिनं कश्मलं तथा ॥ ३८ ॥ कष्मलम्, मेध्ये पावनं पवित्रं च पविस्तथा । पूतं च प्रकृष्टे मुख्यं प्रमुखं मुखमित्यपि ॥ ३९॥ प्रधानमजहल्लिङ्गं वाच्यलिङ्गमपि स्मृतम् । वरं वरेण्यं प्रवरमग्यमग्रीयमग्रियम् ॥ ४० ॥ अग्रिममनुत्तमं चोत्तमं चाऽनवरा -ऽर्ध्यवत् । परं परार्ध्य ग्रामण्य-ग्रण्य प्रष्ठमन्तम् ॥४१॥ सत्तमे श्रेयसा श्रेष्ठं स्याद् टवर्गद्वितीययुक् । उपसर्जनमाविष्टलिङ्गं स्यादप्रधानके ॥ ४२ ॥ निकृष्टे त्वपकृष्टं स्यादधमं चाऽवमं समे । याप्यं याव्यं रेप-रेफौ रेपो रेफश्व सान्तिमे ॥४३॥
८९
अर्वाऽर्वाणोऽसेचनकमासेचनकमित्यऽपि । दर्शनाद् हगतर्पेऽर्थे, शोभने मञ्जु - मञ्जुलौ ||१४|| रम्यं रमणीयं सौम्यं सोमं बन्धूर - बन्धुरे | नम्रेऽपि कमनीयं स्यात् काम्यं कम्र मनोरमम् ॥ ४५ ॥ रामाऽभिरामे चाऽसारे शक्यं शिक्यं च, रिक्तके | शून्यं शुन्यं च प्रत्यग्रे नवीना-ऽभिनवे नवम् ॥४६॥ नव्यवद् नूतनं नूत्नम्, जीर्ण जरति जर्णवत् । प्रणं प्रीणं पुराणं च प्रतनं च पुरातनम् ॥४७॥ प्रत्नं चिरत्नं च चिरन्तनम्, परुद्भवे मतम् ।
RA
१ ठकारान्तमित्यर्थः । २ एतदन्त निकृष्टपर्यायाः ।
३ द्रष्टेऽप्यर्थे येन न तृप्यति दृग् सोऽर्थो हगतर्पः, तस्मिन्नित्यभिप्रेतम् ।
१२