________________
शब्दरत्नाकरेविप्रतिसारो विप्रतीसारोऽथ सुकृते वृषः। वृषभो धर्मधरीमा नान्तो धर्मोऽथ दिष्टके ॥ ७ ॥ भागो भाग्यं भागधेयम् , शुभकर्मण्यपोऽप्तसा । सान्ते षण्ढे, पापं पाप्मा किल्विषं कलुषं समे ॥ ८ ॥ कल्मषमभिप्राये तु छन्दो ना छन्दसा षणा । चतुरश्चातुरको द्वौ नेत्रगोचर ईरितौ ॥ ९॥ चाटुकारे चक्र-गण्डावपि, स्परिशः स्पर्शवत् । शिशिरे शीतलः शीतः सुसीमश्च सुषीमवत् ॥ १० ॥ ईषदुष्णे कवोष्णः स्यात् कदुष्णः कोष्ण इत्यपि । खरे जरठो जठरः करटः कर्कटोऽपि च ॥ ११ ॥ कक्खडः खक्खटस्तद्वत् , कोमले मृदुलो मृदुः। सोमालः सुकुमारश्व, मधुलो मधुराऽन्वितः ॥ १२ ॥ गुल्ये, दन्तशठेऽम्लोऽम्ल्वः, कखाये तुबरस्तथा । तूबरः कुबरोऽपि स्यादाद्यौ द्वौ तौबरोऽपि च ॥१३॥ त्रयोऽश्मश्रुनरे शृङ्गहीनपशावऽपि स्मृतः। .. आमोदिनि मुखेशुभाद् वासनः, धवले सितः ॥१४॥ शितिः श्वेतः श्येतः श्येनः शुध्रिः शुभ्रश्च पाण्डरः । पाण्डुर-पाण्डू गोराप्तो गौरः पीतेऽरुणेऽप्यऽमू ॥ १५ ॥ शुक्रः शुक्लः, कपोतामे कापोतः स्यात्कपोतवत् । कपोटोऽप्यथ हारिद्रे कथितौ पीत-पीतकौ ॥ १६ ॥ ... १ छन्दःशब्देन नपुंसकेन सहेतिच्छन्दः ।
२ मुखशुभशब्दाद् वासनशब्दयोगे मुखशुभवासन इति ।